SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ३ मकाण्डः । २२३ तस्य प्रपौत्रस्य पुत्रस्तत्पुत्रः, परात्परतरः परम्परः पृषोदरादित्वात् परम्परा अस्यास्तीति वा ॥ १ ॥ २०८ ॥ पैतृष्वसेयः स्यात् पैतृष्वस्त्रीयस्तुक् पितृष्वसुः । " पितृष्वसुरपत्यं पैतृष्वसेयः, पैतृष्वस्रीयः " मातृपित्रादेर्डेयणीयणौ ” ॥६।१। ९० ॥ पितृष्वसुस्तुक् अपत्यम् ॥ १॥२॥ मातृष्वस्त्रीयस्तुग् मातृष्वसुर्मातृष्वसेयवत् ॥ २०९ ॥ मातृष्वसुः सुतोऽपत्यं मातृष्वस्रीयः, मातृष्वसेयः ॥ १ ॥ २ ॥ २०९ ॥ विमातृजो वैमात्रेयः चिरुद्धा माता विमाता तस्या जातो विमातृजः, विमातुरपत्यं वैमात्रेयः, शुभ्रा - दित्वादेयण् ॥ १ ॥ द्वैमातुरोद्विमातृजः । द्वयोर्मात्रोरपत्यं द्वैमातुरः “संख्यासंभद्राद् मातुर्मातुर्च” ॥६।१।६६॥ इत्यण्, द्वाभ्यां जातो द्विमातृजः ॥ १ ॥ सत्यास्तु तनये सांमातुरवद् भाद्रमातुरः ॥ २१० ॥ संगताया मातुरपत्यं सांमातुरः, एवं भाद्रमातुरः संख्यासंभद्रा ॥ ६।१।६६ ।। इत्यण् ॥ १ ॥ २ ॥ २१० ॥ सौभागिनेयकानीनौ सुभगाकन्ययोः सुतौ । 66 · "" "" सुभगाया अपत्यं सौभागिनेयः " कल्याणादेरिन् चान्तस्य ॥६।१।७७॥ इत्येयण् ॥ १ ॥ कन्याया अपत्यं कानीनः " कन्यात्रिवेण्याः कनीनत्रिवणं च ॥६।१।६२॥ इत्यण् ॥ १॥ पौनर्भवपारस्त्रैणेयो पुनर्भूपरस्त्रियोः ॥ २१९ ॥ "" सुत इत्येव, दास्या अपत्यं दासेरः “ क्षुद्राभ्य एरण् वा एयण दासेयः ॥ १ ॥ २ ॥ "" पुनर्वा अपत्यं पौनर्भवः “पुनर्भूपुत्र - " ॥ ६।१ । ३९ ॥ इत्यञ् ॥ १ ॥ परस्त्रिया अपत्यं पारस्त्रैणेयः “ कल्याणादेः - " ॥ ६।१1७७ ॥ इत्येयम्॥ १॥२११॥ दास्या दासेरदासेयौ ॥६।१।८० ॥ पक्षे नाटेरस्तु नटीसुतः । नव्या अपत्यं नाटेर ः “क्षुद्रा - " ॥ ६।१।८० ॥ इत्येयण् । नाटेयोऽपि ॥ १ ॥ बन्धुलो बान्धकिनेयः कौलटेरोऽसतीसुतः ॥ २१२ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy