SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २२२ अभिधानचिन्तामणौ ॥ ४ ॥ सूनुः ॥ ५॥ तनया ॥६॥ दारिका ॥७॥ सुता ॥ ८॥ पुत्राद् गौरादित्वाद् ङ्यां पुत्रीति ॥ ९॥ शेषश्चात्र- पुत्र्यां धीदा समधुका । देहसंचारिणी चापि ॥ तोकापत्यप्रसूतयः ॥ २०६ ॥ तुक् प्रजोभयोः उभयोः- पुत्रे, दुहितरि च, तौति हिनस्ति दुःख तोकं "भीण्-''॥ (उणा२१) ॥ इति कः ॥ १॥ न पतन्ति येन जातेन पूर्वजास्तदपत्यं “ नो हलिपतेः" ॥ (उणा-३५८)॥ इति यः ॥ २ ॥ प्रसूयतेऽसौ प्रसूतिः ॥ ३ ॥ २०६॥ तौतीति तुक् “तोः किक् ॥ (उणा-८६९) ॥ ४ ॥ प्रजायते प्रजा ॥५॥ शेषश्चात्र- अपत्ये सन्तानसन्तती ॥ भ्रात्रीयो भ्रातृव्यो भ्रातुरात्मने । भ्रातुरपत्यं भ्रात्रीयः “ईयः वसुश्च" ॥ ६ । १ । ८९ ॥ इतीयः ॥ १ ॥ "भ्रातुर्व्यः" ॥ ६ । १ । ८८ ॥ इति व्ये भ्रातृव्यः ॥२॥ खस्रीयो भागिनेयश्च जामेयः कुतपश्च सः ॥ २०७॥ __ खसुरपत्यं खस्रीयः “ईयः खसुश्च" ॥ ६ । १ । ८९ ॥ १॥ भागन्या । अपत्यं भागिनेयः "ड्याप्त्यूङः॥६॥ १॥ ७० ॥ इत्येयण् ॥ २॥ जामेरपत्यं जामेयः "इतोऽनिजः" ॥ ६ ॥ १।७२ ॥ इत्येयण ॥ ३ ॥ कुतः सौत्रः, कोतति कुतपः "भुजिकुति-" ॥ (उणा-३०५) ॥ इति किदपः ॥ ४ ॥ २०७॥ नप्ता पौत्रः पुत्रपुत्रः नमति पूर्वजेभ्यो नप्ता “नमेः प् च ॥ (उणा-८६२) ॥ इति तृः॥१॥ पुत्रस्यापत्यमनन्तरं पौत्रः "पुनर्भूपुत्र-" ॥ ६ । १ । ३९ ॥ इत्यञ् ॥ २ ॥ - दौहित्रो दुहितुः सुतः । दुहितुरपत्यं दौहित्रः " पुनर्भूपुत्र-" ॥ ६।१।३९ ॥ इत्यञ् ॥१॥ शेषश्चात्र- नप्ता तु दुहितुः पुत्रे ॥ प्रतिनप्ता प्रपौत्रः स्यात् प्रतिजातो नप्तृतः प्रतिनप्ता ॥ १॥ प्रजातः पौत्रात् प्रपौत्रः पौत्रापत्यम्, आदिपुरुषाच्चतुर्थः ॥२॥ तत्पुत्रस्तु परम्परः ॥ २०८॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy