SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ३ मर्यकाण्डः । २२१ बाहुलकाद् ." हृद्भगसिन्धोः ” ॥ ७४।२५ ॥ इत्युत्तरपदस्य न वृद्धिः ॥ २ ॥ श्रद्धानं श्रद्धा ॥ ३ ॥ भृशं लसनं लालसा पुंस्त्रीलिङ्गः । अमरस्तु “दोहदमिच्छाम्, इच्छातिरेकं तु लालसाम्" आह ॥ ४॥ . सूतिमासि तु वैजननः सूतेः प्रसवस्य मासस्तत्र “दशमे मासि सूते वै” इति श्रुतेः, "नवमे दशमे चाऽपि प्रबलैः सूतिमारुतैः। निःसार्यते बाण इव यन्त्रच्छिद्रेण स ज्वरः ” ॥१॥ इति स्मृतेश्च नवमो दशमो वा मासः । विजनने भवो वैजननः॥१॥ विजननं प्रसवः विजन्यते विजननम् ॥१॥ प्रसवमं प्रसवः ॥ २ ॥ नन्दनः पुनः ॥ २०५॥ उद्वहोऽङ्गात्मजः सूनुस्तनयो दारकः सुतः । पुत्रः नन्दयति नन्दनः “नन्यादिभ्यः-" ॥ ५५११५२ ॥ इत्यनः ॥ १॥२०५॥ उद्वहत्युद्वहः ॥२॥ अङ्गादात्मनश्च जायतेऽङ्गजः , आत्मजः “ अजातेः-" ॥५।१।१७०॥ इति डः ॥ ३ ॥ ४ ॥ सूयते सूनु : "सुवः कित्" ॥(उणा-७८८)। इति नुः ॥ ५॥ तनोति कुलं तनयः "कुगुवलि-" ॥ (उणा-३६५) ॥ इत्ययः ॥ ६॥ दारयति दुःखं दारकः ॥ ७ ॥ सुनोति सुतः "सुसितनि-"॥ (उणा-२०३) ॥ इति कित् तः ॥ ८ ॥ पुनाति, पवते वा पितृपूतिमिति पुत्रादौ निपातनात् पुत्रः, यदाहुः- " पूतीति नरकस्याख्या दुःखं च नरकं विदुः” इति, पुनानो नरकात् त्रायते इति वा 1 यन्मनु: "पुग्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः । तस्मात् पुत्र इति प्रोक्तः खयमेव खयम्भुवा" ॥१॥ इति । . “स्थांपास्नात्रः कः" ॥ ५ । १ । १४२ ॥ ९ ॥ शेषश्चात्र-पुत्रेतु कुलधारकः ॥ सदायादो द्वितीयश्च ॥ दुहितरि स्त्रीत्वे नन्दनादयः शब्दाः स्त्रीत्वे वर्तमाना दुयतेऽनया जामाता दुहिता "त्वष्टक्षत्त-" ॥ (उणा-८६५) ॥ इति साधुः, तस्यां दुहितरि वर्तन्ते तेन नन्दनादिभ्यः “आत्" ॥ २।४।१८॥ इत्यापि नन्दना ॥१॥ उद्वहा ॥ २ ॥ अङ्गजा ॥ ३ ॥ आत्मजा २९
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy