SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २२० अभिधानचिन्तामणौ- .. संगच्छते मिथुनम् “ पिशिमिथि-" ॥ (उणा-२९० ) ॥ इति किदुनः ॥ ३ ॥ . अन्तर्वत्नी गुर्विणी स्याद्गर्भवत्युदरिण्यपि ॥ २०२ ॥ आपन्नसत्त्वा गुर्वी च अन्तर्विद्यतेऽस्यामन्तवत्नी “ पतिवल्यन्तर्वन्यौ-" ॥ २॥४।५३ ।। इति ङ्यां साधुः ॥ १ ॥ गुरुगर्भोऽस्त्यस्या गुर्विणी, शिखादित्वादिनि पृषोदरादित्वात् साधुः " भ्वादेर्नामिनो-" ॥२।१।६३॥ इति दीर्घस्यानित्यत्वेन ज्ञापितत्वात् , अवश्यं गुर्वति गर्भपालनायेति वा ॥ २ ॥ गर्भोऽस्त्यस्या गर्भवती, एवमुदरिणी ॥३॥४॥२०२॥ आपनं गृहीतं सत्त्वं गर्भोऽनया आपन्नसत्त्वा ॥५॥ गुर्वी गर्भवत्त्वात् ॥ ६ ॥ श्रद्धालुदोहदाऽन्विता । श्रद्धाशीला श्रद्धालुः "शीश्रद्धा-" ॥ ५।२।३७ ॥ इत्यालुः ॥ १॥ दोहदं गर्भिण्या अभिलाषस्तेनाऽन्विता ॥ २ ॥ विजाता च प्रजाता च जाताऽपत्या प्रसूतिका ॥ २०३ ॥ विजायते स्म विजाता, एवं प्रजाता ॥१॥२॥ जातमपत्यमस्या जाताऽपत्या ॥३॥ प्रसूते स्म प्रसूता सैव प्रसूतिका, प्रजाता सूतिरस्या वा ॥ ४॥२०३ ॥ गर्भस्तु गरभो भ्रूणो दोहदलक्षणं च सः । गीर्यते गर्भः “ गृदृरमि-" ॥ (उणा-३२७ ) ॥ इति भः ॥ १ ॥ “कृशृग-" ( उणा-३२९ ) ॥ इत्यभे गरभः ॥ २॥ नियते कुक्षौ भ्रूणः “ भ्रूणतृण-” ॥ ( उणा-१८६ ) ॥ इति णे निपात्यते ॥ ३ ॥ दोहदो लक्षणं चिह्नमस्य दोहदलक्षणं क्लीबलिङ्गः ॥ ४ ॥ गर्भाशयो जरायूल्बे गर्भ आशेतेऽत्र गर्भाशयः ॥ १॥ जरामेति जरायुः, पुंलिङ्गः “कृवापाजि." ( उणा-१)॥ इत्युण ॥२॥ अलत्यावृणोति उल्ब पुंक्लीवलिङ्गः, “शल्यलेरुचातः॥ ( उणा-३१९) ॥ इति बः ॥ ३ ॥ कललोल्बे पुनः समे ॥ २०४ ॥ कलयति कललं शुक्रशोणितसमवायः “ मृदिकन्दि-" ॥ ( उणा-४६५)॥ इत्यलः, के ललतीति वा; अलत्यूल्बं पुंक्लीवलिङ्गौ ॥१॥२॥२०४ ॥ ___ दोहदं दौ«दं श्रद्धा लालसा द्वे हृदये अत्र दोहदं पुंक्लीबलिङ्गः पृषोदरादित्वात् , दोहमिच्छापूरणं ददाति वा ॥१॥ अभिलाषान्तरेण दुष्टं हृदयं दुहृदयं तस्य भावः कर्म वा दौहृदं, युवादित्वादण् ,
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy