SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः। २१७ • जीवत्तोका तु जीवसूः ॥ १९४ ॥ जीवत्तोकमपत्यमस्या जीवत्तोका ॥ १॥ जीवा जीवन्ती सूः प्रसूतिरस्या जीवसूः ॥ २ ॥ १९४ ॥ नश्यत्प्रसूतिका निन्दुः नश्यन्ती म्रियमाणा प्रसूतिर्यस्याः सा तथा, निन्दत्यात्मानं निन्दुः"भृमृतृ-'॥ ( उणा-७१६ ) ॥ इति बहुवचनाद् उः ॥१॥ सश्मश्रुर्नरमालिनी। सह श्मश्रुणो वर्तते सश्मश्रुः, नरत्वं मलते धारयति नरमालिनी ॥ १ ॥ शेषश्चात्र-- पालिः सश्मश्रुयोषिति ॥ कात्यायनी त्वर्धवृद्धा काषायवसनाऽधवा ॥ १९५ ॥ कतस्यापत्यमिव कात्यायनी, ऋषिपत्न्याकारत्वात् त्रिलक्षणेयम् , अर्ध वृद्धा अर्धवृद्धा, कषायेन रक्तं काषायं वसनमस्याः काषायवसना, नास्ति धवो अस्या अधवा रण्डेत्यर्थः ॥ १॥ १९५ ॥ श्रवणा भिक्षुकी मुण्डा शृणोति श्रवणा, श्रमणाऽपि च ॥ १॥ भिक्षणशीला भिक्षुः, के, इयां च भिक्षुकी ॥ २ ॥ मुण्ड्यते मुण्डा ॥ ३ ॥ . शेषश्चात्र- श्रवणायां भिक्षुणी स्यात् ॥ पोटा तु स्त्री नृलक्षणा। पुठ्यते संश्लिष्यते क्लीबत्वेन घनि पोटा स्त्री नृलक्षणा इत्युभयव्यञ्जना नपुंसंकाख्या ॥१॥ साधारणस्त्री गणिका वेश्या पण्यपणाङ्गना ॥१९६ ॥ भुजिष्या लञ्जिका रूपाऽऽजीवा ___ साधारणा चासौ स्त्री च साधारणस्त्री ॥१॥ गणयतीश्वरानीश्वरौ गणिका, गणः पेटकमस्त्यस्या वा ॥२॥ वेशे वेश्यावाटे भवा वेश्या दिगादित्वाद् यः, वेशेन शोभते इत्येके ॥३॥ पण्येन पणेन चाङ्गना पण्याङ्गना, पणाङ्गना ॥४॥५॥ १९६ ॥ भुज्यते भुजिष्या " रुचिभुजिभ्यां किष्यः" ॥ ( उणा-३८४ ) ॥६॥ लजति भर्त्सयते लजिका ॥७॥ रूपेणाऽऽजीवति रूपाजीवा ॥८॥ शेषश्चात्र-- वेश्यायां तु खगालिका।। . . वारवाणिः कामलेखा क्षुद्रा ॥ . . .
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy