________________
३ मर्त्यकाण्डः ।
२१३
यच्छाश्वतः - " यौतकादि धनं दायो दयो दानमुदाहृतम्” इति ॥२॥ हियतेऽनेनेति हरणम् ॥ ३ ॥
कृताभिषेका महिषी
नृपस्त्रीत्युत्तरतः संबध्यते, महादेवीत्वे कृताभिषेका, यथा वासवदत्ता । मह्यते पूज्यते महिषी " मह्यविभ्यां टित् " ॥ ( उणा - ५४७ ) ॥ इतीषः ॥ १ ॥ भोगिन्योऽन्या नृपस्त्रियः ॥ १८४ ॥
भोगोsस्त्यासां भोगिन्यः, अन्याः पद्मावत्याद्याः ॥ १ ॥ १८४ ॥
सैरन्ध्री याऽन्यवेश्मस्था स्वतन्त्रा शिल्पजीविनी ।
याऽन्यवेश्मस्था परवेश्मोपजीविनी स्वतन्त्रा स्वायत्ता एकायत्ता न भवतीत्यर्थः, शिल्पं प्रसाधनादि तेन जीवति सा सह ईरमीरणं धरते सैरन्ध्री पृषोदरादित्वात् “चतुःषष्टिकलाभिज्ञा शीलरूपादिसेविनी । प्रसाधनोपचारज्ञा सैरन्ध्री " इति कात्यः ॥१॥
असिक्त्यन्तःपुरप्रेष्या
असिताऽसिक्तिः “ क्नः पलितासितात् " ॥ २ । ४ । ३७ ॥ इति ड्यां साधुः, अन्तःपुरे प्रेष्या नियोज्या ॥ १ ॥
दूतीसंचारिके समे ॥ १८५ ॥
(2
दूयते मौखर्याद दूती शीरी - " ॥ ( उणा - २०१ ) ॥ इति कित्तः ॥ १ ॥ संचारयति संदेशं प्रापयति संचारिका ॥ २ ॥ १८५ ॥
प्रज्ञा प्राज्ञी प्रजानत्यां
प्रजानाति प्रज्ञा ॥१॥ सैव प्रज्ञाद्यणि प्राज्ञी ॥ २॥ प्राज्ञा तु प्रज्ञयाऽन्विता ।
प्रज्ञाऽस्त्यस्याः प्राज्ञा " प्रज्ञाश्रद्धा " ।। ७ । २ । ३३ ॥ इति णः ॥ १॥ स्यादाभीरी महाशुद्री जातिपुंयोगयोः समे ॥ ९८६ ॥
आभीरजातीया, आभीरस्य स्त्री वा आभीरी, एवं महाशुद्री, जातिलक्षणो धवयोगलक्षणो वा ङीप्रत्ययः, वैश्यभेद एव आभीरो गवाद्युपजीवी, अन्यत्र महती चासौ शुद्रा च महाशुदेत्येव भवति ॥ १ ॥ २ ॥ १८६॥
पुंयुज्याचार्य्याचार्यानी
"
पुंसा योगः पुंयुक् तत्र, आचार्यस्य भार्या आचार्य, आचार्यानी “ मातुलाचार्योपाध्यायाद्वा ॥ २ । ४ । ६३ ॥ इति ङीः, पक्षे तत्सन्नियोगे आनू चान्तः, क्षुम्नादित्वाद् णत्वाभावः ॥ १ ॥ २ ॥
२९