SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २१२ अभिधानचिन्तामणौ विवाहः पाणिपीडनम् ॥ १८१ ॥ पाणिग्रहणमुद्वाह उपाद् याम-यमावपि । दारकर्म परिणयः विवहनं विवाहः ॥ १॥ पाणिः पीड्यतेऽस्मिन् पाणिपीडनम् ॥ १८१ ॥ एवं पाणिग्रहणम् ॥ २ ॥३॥ उद्वहनमुद्वाहः ॥ ४ ॥ उपात्परतो याम-यमौ- उपयमनमुपयामः, उपयमः “ संनिव्युपाद्यमः " ॥ ५। ३ । २५ ॥ इति वाऽल् ॥५॥ ६ ॥ दाराणां कर्म क्रिया दारकर्म ॥ ७ ॥ परिणयनं परिणयः ॥ ८॥ ... , शेषश्चात्र जाम्बूलमालिकोद्वाहे वरयात्रा तु दौन्दुभी । गोपाली वर्णके शान्तियात्रा वरनिमन्त्रणे । स्यादिन्द्राणी महे हेलिरुलूलुमङ्गलध्वनिः ॥ १ ॥ स्यात्तु स्वस्त्ययनं पूर्णकलशे मङ्गलाह्निकम् । शान्तिके मङ्गलस्नानं वारिपल्लववारिणा ॥ २ ॥ हस्तलेपे तु करणं हस्तबन्धे तु पीडनम् । तच्छेदे समवभ्रंशो धूलिभक्ते तु वार्तिकम् ॥ ३ ॥ जामाता दुहितुः पतिः ॥ १८२ ॥ जायां प्रजायां मिन्वन्ति तमिति जामाता " जायामिगः"॥ (उणा-८६०)। इति तृः ॥१॥ १८२॥ उपपतिस्तु जारः स्यात् उपजातः पतिरुपपतिः ॥१॥ जीर्यतेऽनेन, जरयति वा जारः " न्यायावाया- " ॥५। ३ । १३४ ॥ इति पनि साधुः ॥ २ ॥ भुजङ्गो गणिकापतिः । भुजङ्गाभ्यां नृत्यद्भयामिव गच्छति भुजङ्गः, “नानो गमः" ॥५।१।१३१॥ इति खड्॥१॥ जम्पती दम्पती जायापती भार्यापती समाः ॥१८३॥ जाया च पतिश्च जम्पती, दम्पती, राजदन्तादित्वाज्जायाशब्दस्य जम्-दम्-भावो वा निपात्यते, पक्षे जायापती ॥ १ ॥ २ ॥ ३॥ भायो च पतिश्च भायोपती ॥४॥ १८३ ॥ यौतकं युतयोर्देयं सुदायो हरणं च तत् । युतयोर्वधूवरयोरिदं यातकम् ॥ १॥ सुष्ठु दीयते सुदायः, दाय इत्येके,
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy