________________
. ३ मर्त्यकाण्डः ।
२११ यतन्ते स्पर्धया यातरः “ यतिननन्दिभ्यां दीर्घश्च" ॥ (उणा-८५६)॥ इति क्रः॥ १७८॥
वीरपत्नी वीरभार्या वीरः पतिरस्या वीरपत्नी “ सपत्न्यादौ " ॥ २ । ४ । ५० ॥ इति ड्यां साधुः ॥१॥२॥
कुलस्त्री कुलबालिका। कुलस्य स्त्री कुलस्त्री ॥१॥ कुलस्य बालिका कुलबालिका; कुलपालिकेत्यमरः॥२॥
प्रेयसी दयिता कान्ता प्राणेशा वल्लभा प्रिया ॥ १७९ ॥
हृदयेशा प्राणसमा प्रेष्ठा प्रणयिनी च सा ।
अतिशयेन प्रिया प्रेयसी " गुणाङ्गा" ॥ ७॥३॥ ९॥ इतीयसि " प्रियस्थिर-" ॥ ७॥ ४ । ३८ ॥ इति प्रादेशः ॥ १॥ नरस्य दयिते ईष्टे दयिता ॥२॥ काम्यते कान्ता ॥३॥ प्राणान् ईष्टे प्राणेशा ॥ ४ ॥ वल्लते वल्लभा " कृश-." ॥ ( उणा-३२९)॥ इत्यभः ॥ ५॥ प्रीणाति प्रिया " नाम्युपान्त्य-"॥५।१। ५४ ॥ इति कः ॥ ६ ॥ १७९ ॥ हृदयस्येष्ट हृदयेशा ॥ ७ ॥ प्राणानां समा तुल्या प्राणसमा ॥ ८ ॥ अतिशयेन प्रिया प्रेष्ठा ॥ ९॥ प्रणयः प्रेम सोऽस्त्यस्याः प्रणयिनी, प्रेमवतीत्यपि ॥ १० ॥
प्रेयस्याद्याः पुंसि पत्यौ भर्ता सेक्ता पतिर्वरः ॥ १८० ॥ विवोढा रमणो भोक्ता रुच्यो वरयिता धवः । प्रेयसीप्रभृतयः शब्दाः पुंलिङ्गे वर्तमानाः सन्तः पत्यौ वर्तन्ते, तद्यथा-प्रेयान् ॥१॥ दयितः ॥ २॥ कान्तः ॥ ३ ॥ प्राणेशः ॥ ४ ॥ वल्लभः ॥५॥ प्रियः॥६॥ हृदयेशः ॥ ७ ॥ प्राणसमः ॥ ८ ॥प्रेष्ठः ॥ ९ ॥ प्रणयी च ॥ १० ॥ बिभर्ति प्रियां भर्ता ॥ ११ ॥ सिञ्चति सेक्ता ॥ १२ ॥ पाति पतिः "पातेर्वा ॥ ( उणा६५९)॥ इति किदतिः ॥ १३ ॥ वृणीते वरयति वा वरः ॥ १४ ॥ १८० ॥ विवहति परिणयते वा विवोढा, यौगिकत्वात् परिणेता, पाणिग्राहः, उपयन्तेत्यादयः ॥१५॥ रमते चित्तं, रमयति वा रमणः ॥ १६ ॥ भुते कान्तां भोक्ता ॥ १७ ॥ रोचते रुच्यः ॥ " रुच्याव्यथ्य " ॥ ५।१।६ ॥ इति ये निपात्यते ॥ १८ ॥ वरयति वरयिता ॥ १९ ॥ धुनाति धवः ॥ २० ॥
जन्यास्तु तस्य सुहृदः तस्य वरस्य सुहृदो वयस्याः, जनीं वहन्ति जन्याः "हृद्यपद्य-" ॥७।१।११॥ इति यः ॥१॥