________________
अभिधानचिन्तामणौ
अथ सधर्मिणी। पत्नी सहचरी पाणिगृहीती गृहिणी गृहा ॥ १७६ ॥ दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः ।
द्वितीयोढा कलत्रं च सह धर्मोऽस्त्यस्याः सधर्मिणी, यज्ञादौ सहाधिकारात् , सहधर्मिणी, सधर्मचारिण्यपि ॥ १॥ पत्नीति पतिशब्दात् “ ऊढायाम् ” ॥ २ । ४ । ५. ॥ इति ङीः नकारश्चान्तादेशः ॥ २॥ सह धर्म चरति सहचरी ॥ ३ ॥ पाणिर्गृहीतोऽस्याः, पाणौ वा गृहीता पाणिगृहीती “ पाणिगृहीतीति" ॥ २ । ४ । ५२ ॥ इति डीः, करात्तीत्यपि ॥ ४ ॥ गृहमस्त्यस्या गृहिणी, गेहिनीत्यपि ॥ ५॥ गृहवासहेतुभूतत्वाद् गृहाः, पुंक्लीबलिङ्गः, पुंस्ययं बहुवचनान्त एव ॥ ६॥१७६॥ दारयन्ति, दीर्यन्तएभिरिति वा दाराः, पुंलिङ्गो बहुवचनान्तश्च, एकवचनान्तोऽपि दृश्यते, यल्लक्ष्यम्-"धमप्रजासम्पन्ने दारे नान्यं कुर्वीत" इति, “न्यायावाया-" ॥ ५।३।५३४॥ इति घमि साधुः ॥ ७ ॥ क्षयन्ति निवसन्यत्र क्षेत्रम् “ हुयामा-" ॥ ( उणा-४५१)॥ इति त्रः॥ ८ ॥ उह्यते वधूः ॥ ९॥ भियते भार्या ॥ १० ॥ जायतेऽस्यां पतिरिति जनिः, ड्या जनी ॥ ११॥ “ ऋशिजनि-" ॥ ( उणा-३६१ ) ॥ इति किति ये जाया, यन्मनुः-- "जायायास्तद्धि जायत्वं यदस्यां जायते सुतः ॥१२॥ परिगृह्यते परिग्रहः ॥ १३ ॥ द्वयोः पूरणी द्वितीया ॥ १४ ॥ उह्यते परिणीयते स्म ऊढा ॥ १५॥ कडति माद्यति कडत्रं, लस्वे कलत्रम् “ वृनक्षि-.” ॥ ( उणा४५६) ॥ इत्यत्रः ॥ १६ ॥
पुरन्ध्री तु कुटुम्बिनी ॥ १७७ ॥ पुरं धत्ते पुरन्ध्रिः, पृषोदरादित्वाद् ड्यां पुरन्ध्री ॥ १ ॥ कुटुम्बं पुत्रभृत्याद्यस्त्यस्याः कुटुम्बिनी ॥ २ ॥ १७७ ॥
प्रजावती भ्रातुर्जाया प्रजाऽस्त्यस्याः प्रजावती ॥१॥ भ्रातुर्जायेत्यत्र " ऋतां विद्या-"॥३॥२॥३७॥ इति समासे षष्ठयलुप्। “द्रक्ष्यसि भ्रातृजायाम्" इत्यादौ तु सप्तमीसमासः ॥२॥
सूनोः स्नुषा जनी वधूः। सूनोर्जाया, स्नौति अपत्यवात्सल्यात् स्नुषा " स्नुपूसू-" ॥ (उणा-५४२) ॥ इति कित् षः ॥ १॥ जायतेऽस्यां जनी ॥ २ ॥ उद्यते वधूः, वधूटीत्यपि ॥३॥
भ्रातृवर्गस्य या जाया यातरस्ताः परस्परम् ॥ १७८ ।।