________________
-.३ मर्त्यकाण्डः ।
२०९
• छेका मत्ता च वाणिनी। छेका मत्ता वणत्यवश्यं वाणिनी ॥ १॥ ___ कन्या कनी कुमारी च
कनति दीप्यते कन्या " स्थाछा- " ॥ ( उणा-३५७) ॥ इति यः ॥१॥ कनति अचि कनी " वयस्यनन्ये" ॥२।४।२१ ॥ इति ड्याम् ॥ २ ॥ कुमारयति कीडयति कुमारी, कुत्सितो मारोऽस्या वाऽनूढत्वात् ॥ ३ ॥ . गौरी तु नग्निकाऽरजाः ॥ १७४ ॥
स्त्रीधर्मरहिता गूयते उपादेयतया गौरी “ खुरक्षुर-" ॥ ( उणा-३९६ )॥ इति साधुः । 'ओनजैत् वीडे' इति केचित् , नजायते स्म नग्ना के नग्निका, " अष्टवर्षा भवेद् गौरी दशमे नग्निका भवेत्” इति स्मा? विशेषो नाश्रितः ॥१॥ नास्ति रजोऽस्या अरजा अप्राप्तर्तुः ॥ २ ॥ १७४ ॥
मध्यमा तु दृष्टरजास्तरुणी युवतिश्चरी ।
तलुनी दिक्करी मध्यमा मध्यमवयाः॥ १॥ दृष्टं रजोऽस्या दृष्टरजाः प्राप्ततुः ॥ २॥ तरति कौमारं वयस्तरुणी " यम्यजि-" ॥ ( उणा-२८८ ) ॥ इत्युनः “ वयस्यनन्ये" ॥२ । ४ । २१ ॥ इति डीः ॥ ३ ॥ " यूनस्तिः " ॥ २ । ४ । ७७ ॥ युवतिः, यौतीति वा “ योः कित् " ॥ ( उणा-६५८ ) ॥ इत्यौणादिकोऽतिः, तस्मात् " इतोऽक्त्यर्थात् " ॥ २। ४ । ३२ ॥ इति वा ट्यां युवतीत्यपि भवति ॥ ४ ॥ चरति चरी ॥ ५॥ रस्य लत्वे तलुनी ॥ ६ ॥ दिशमाश्रयं करोति दिक्करी, यल्लक्ष्यम्-“ परिणतदिकरिकास्तटीविभति" इति ॥ ७ ॥ . वर्या पतिंवरा स्वयंवरा ॥ १७५ ॥
वियते वर्या “ वर्योपसर्या-" ॥५॥ १॥ ३२ ॥ इति ये साधुः, वरमर्हति वा “ दण्डादेर्यः" ॥ ६ । ४ । १७८ ॥ इति यः ॥ १॥ पतिं वृणीते पतिंवरा "भृवृजि-" ॥ ५। १ । ११२ ॥ इति खः ॥ २॥ स्वयं वृणीते स्वयंवरा ॥ ३ ॥ १७५ ॥
सुवासिनी वधूटी स्याच्चिरिण्टी सुष्ठ वसति सुवासिनी, स्ववासिनीति द्रमिलाः ॥ १॥ बध्नाति कटाक्षैर्वधूटी " बन्धेः" ॥ ( उणा--१५७ ) ॥ इति किदूटः " वयस्यनन्त्ये" ॥ २ ॥ ४ । २१॥ इति ङीः, वध्वटीत्यपि व्याडिः ॥ २ ॥ चिरिः सौत्रः स्वादिः, चिरिणोति चिरिण्टी " टिण्टश्चर् च वा” ॥ ( उणा-१५० ) ॥ इति साधुः; चरिण्टीत्यपि, चिरण्टीत्यमरः । चरण्टीत्यन्ये ॥ ३ ॥