________________
...३ मर्यकाण्डः । ।
२०७
काम्यते कान्ता ॥ १ ॥ बिभेतीत्येवंशीला भीरुः, अत्र क्रियावाचित्वाजातिलक्षण ऊ न भवति, यथा “असूर्यम्पश्यरूपा त्वं किमभीरुररार्यसे” इति । ताच्छीलिकाः संज्ञाप्रकाराश्चेत् तदा मनुष्यजातित्वे सत्यूङ् भवत्येव, यथा “न हि भीरु ! गतं निवर्तते" इति ॥ २ ॥प्रशस्तो नितम्बोऽस्त्यस्या नितम्बिनी ॥३॥१६८॥ प्रकृष्टो मदः कामवेगोऽस्याः प्रमदा ॥ ४॥ सुन्दः सौत्रः, सुन्दन्त्येनां सुन्दरी "ऋच्छिचटि-" ॥ ( उणा-३९७ ) ॥ इत्यरः, सुष्ठु आद्रियते वा पृषोदरादित्वात् ॥५॥ रमते रामा, ज्वलादित्वाण्णः ॥ ६ ॥ रम्यादिभ्यः कर्तर्यनटि रमणी ॥ ७ ॥ ललति, लल्यते वा ललना ॥ ८ ॥ प्रशस्तान्यङ्गानि सन्त्यस्या अङ्गना “ नोऽङ्गादेः " ॥७।२।२९॥९॥
खगुणेनोपमानेन मनोज्ञादिपदेन च ॥ १६९ ॥ विशेषिताङ्गकर्मा स्त्री यथा तरललोचना । अलसेक्षणा मृगाक्षी मत्तेभगमनाऽपि च ॥१७॥
वामाक्षी सुस्मिता अजस्य कर्मणो वा खश्चासौ गुणश्च स्वगुणस्तेन तद्वाचिना शब्देनेत्यर्थः, अत्र खशब्दोपादानात् तरलत्वादीनां गुणानामसाधारणतामाह, तेन मनोज्ञत्वादीनां गुणत्वेऽपि साधारणत्वाद् मनोज्ञादिपदेन चेति पृथग निर्देशः; उपमीयते अनेन उपमान मुगलोचनादिः, मनोज्ञ आदिर्यस्य तद् मनोज्ञादिपदं तेन च। एतैत्रिभिर्विशेषितमङ्गमवयवो लोचनादिः, कर्म च क्रिया गमनादिर्यस्याः सा तथा स्त्री। यथाशब्दः खगुणादिक्रमेणाङ्गकर्मोदाहरणोपन्यासार्थः । तरले लोचने अस्यास्तरललोचना, अत्र तरलत्वं लोचनस्याऽसाधारणः खकीयो गुणः ॥ १ ॥ अलसमीक्षणमालोकोऽस्या अलसेक्षणा, अत्र ईक्षणलक्षणायाः क्रियाया अलसत्त्वमसाधारणः स्वकीयो गुणः ॥ २ ॥ मृगाक्षिणीव अक्षिणी अस्या मृगाक्षी, उष्टमुखादित्वादुपमानवाच्यक्षिशब्दस्य बहुव्रीही लोपः, अत्र मृगाक्षिलक्षणेनोपमानेनाक्षिलक्षणमङ्गं विशेषितम् ॥ ३॥ एवं मत्तेभगमनमिव गमनमस्याः सा तथा, अत्रोपमानभूतमत्तेभगमनेनापरा गमनक्रिया विशेषिता ॥४॥१६९॥१७०॥ वामे मनोज्ञे अक्षिणी अस्या वामाक्षी, अत्र वामत्वेनाक्ष्यङ्गं विशेषितम् ॥५॥ शोभनं स्मितमस्याः सुस्मिता, अत्र शोभनत्वेन स्मितक्रिया विशेषिता । वरारोहा, वरवर्णिनी, प्रतीपदार्शनीत्यादयः शब्दा अत्र अभ्यूह्याः ॥६॥. - अस्याः स्वं मानलीलास्मरादयः ।
अस्याः स्त्रियाः खं धनं मानादयः- मानोऽभिमानः, लीला शृङ्गारचेष्टाविशेषः, स्मरो मन्मथः; तेन मानिनी, लीलावती, स्मरवतीत्यादिनामानि भवन्ति, आदिग्रहणाद मनोविलासादयः॥
लीला विलासो विच्छित्तिर्विव्वोकः किलिकिञ्चितम् ॥१७॥