SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ '२०६ __ अभिधानचिन्तामणौ २। ३३॥ इति षष्ठ्यलुप् ॥ १॥ अमुष्यपुत्रः, अत्र चौरादिपाठसामर्थ्यात् समासे . षष्ठ्यलुप् ॥ २॥ प्रख्यातो कप्ता पिताऽस्य प्रख्यातवप्तृकः ॥ ३ ॥ कुल्यः कुलीनोऽभिजातः कौलेयकमहाकुलौ ॥ १६६ ॥ . जात्यः कुलस्यापत्यं कुल्यः, कौलेयकः “यैयकावसमासे वा" ॥६।१।९७॥१॥ २॥ "कुलादीनः" ॥६।१।९६ ॥ इति कुलीनः ॥३॥ अभिजायते स्म अभिजातः, अभिजोऽपि ॥ ४ ॥ महत्कुलमस्य महाकुलः ॥५॥१६६ ॥ जातौ साधुर्जात्यः ॥६॥ गोत्रं तु सन्तानोऽन्ववायोऽभिजनः कुलम् । अन्वयो जननं वंशः गूयते कथ्यतेऽनेन गोत्रम् “ हुयामा-" ॥ ( उणा-४५१ ) ॥ इति त्रः ॥१॥ संतन्यतेऽनेन सन्तानः, सन्ततिरपि ॥ २ ॥ अन्ववैत्यन्ववायः ॥ ३ ॥ अभिजन्यतेऽनेन अभिजनः “व्यञ्जनाद् घञ्” ॥५। ३ । १३२ ॥ ४ ।। कोलति संस्त्यायति कुलम् ॥ ५ ॥ अन्वीयतेऽन्वयः ॥ ६ ॥ जन्यतेऽनेन जननम् ॥ ७ ॥ वम्यते जन्यतेऽनेन वंशः “पादावमि-" ॥ ( उणा-५२७ ) ॥ इति शः ॥ ८॥ स्त्री नारी वनिता वधूः ॥ १६७ ॥ ' वशा सीमन्तिनी वामा वर्णिनी महिलाऽबला । योषा योषित् स्यति कुलं, सूतेऽपत्यं, स्तृणाति धर्म, स्त्यायत्यस्यां गर्भ इति वा स्त्री "स्त्री " ( उणा-४५०)॥ इति त्रटि निपात्यते ॥ १॥ नृनरयोः " नारीसखी- "॥२॥ ४ । ७६ ॥ इति ङ्यां नारादेशे नारी ॥ २ ॥ वन्यते भज्यते स्म वनिता ॥ ३ ॥ उह्यते वधूः "वहेध च"॥ (उणा-८३२)॥ इत्यू: ॥४॥१६७॥ वष्टि कामयते वसा ॥५॥ सीमन्तः केशविन्यासोऽस्त्यस्याः सीमन्तिनी ॥६॥ वाति गच्छति नरं वामा “ अर्तीरि-" ॥ ( उणा-३३८)॥ इति मः, यद्वा वामा विपरीतलक्षणया, शृङ्गारिखेदनाद्वा ॥ ७॥ वर्णोऽस्त्यस्या वर्णिनी ॥ ८ ॥ मह्यते महिला “ कल्यनिमहि-"॥ ( उणा-४८१)॥ इतीलः, महेलाऽपि ॥ ९ ॥ नास्ति बलमस्या अबला ॥१०॥ यौति नरेण योषा “ योरूच वा” ॥ ( उणा-५४१) ॥ इति षः ॥ ११॥ युषः सौत्रः, योषति गच्छति पुरुषं योषित् "हृसृरुहि-" ॥ (उणा-८८७) ॥ इति इत् , योषिताऽपि ॥ १२ ॥ विशेषास्तु कान्ता भीरुनितम्बिनी ॥ १६८ ॥ प्रमदा सुन्दरी रामा रमणी ललनाऽङ्गना ।।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy