SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ . ३ मर्त्यकाण्डः । २०५ “ तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतियिं तं विजानीयाच्छेषमभ्यागतं विदुः" ॥१॥ इति तु विशेषो नाश्रितः ॥ ५ ॥ प्राघूर्णते प्राघूर्णकस्तत्र ॥ ६ ॥ अथावेशिकमातिथ्यं चाऽऽतिथेय्यपि ॥ १६३ ॥ अवेशेऽप्रतिवेशे भवमावेशिकम् ॥ १॥ अतिथये इदमातिथ्यम् “ण्योsतिथेः" ॥७।१ । २४ ॥ इति ण्यः ॥ २ ॥ अतिथौ साधुरातिथेयी, स्त्रीक्ली. बलिङ्गः "पृथ्यतिथि." ॥ ७ । १ । १६ ॥ इत्येयण् ॥ ३ ॥ १६३ ॥ सूर्योदस्तु स संप्राप्तो यः सूर्येऽस्तं गतेऽतिथिः । सूर्यप्रकाशव्याप्तः कालोऽपि सूर्यस्तमूढवान् सूर्योढः ॥ १॥ पादार्थ पाचं वारीत्युत्तरतः संबध्यते, पादार्थमुदकं पाद्यम् “पाद्यायें" ॥ ७ ॥ १ ॥ २३ ॥ इति ये साधुः ॥ १॥ ... अर्धामध्ये वारि अर्घार्थमयं वारि " पाद्यार्थे " ॥ ७ ॥ १॥ २३ ॥ इति यः ॥ १॥ . अथ गौरवम् ॥ १६४ ॥ अभ्युत्थानं गुरोर्भावो गौरवम् ॥ १ ॥ १६४ ॥ अभिमुखमुत्थीयते अभ्युत्थानम् ॥ २ ॥ व्यथकस्तु स्याद् मर्मस्पृगरुन्तुदः। व्यथयति ब्यथकः ॥ १ ॥ मर्म स्पृशतीति मर्मस्पृक् ॥ २ ॥ अरुस्तुदति अरुन्तुदः “बहुविध्वरु-" ॥ ५। १ । १२४ ॥ इति खश् ॥ ३ ॥ __ ग्रामेयके तु ग्रामीणग्राम्यौ प्रामे भवो ग्रामेयकस्तत्र “कच्यादेश्चैयकम् " ॥६।३ । १० ॥ १ ॥ "प्रामादीनश्च" ॥ ६ । ३ । ९ ॥ इतीनजि ग्रामीणः ॥ २ ॥ ये ग्राम्यः ॥ ३ ॥ लोको जनः प्रजा ॥ १६५ ॥ लोकते पश्यति व्यवहारान् , लोक्यते वा लोकः ॥१॥ जायते जनयति वा जनः ॥ २ ॥ प्रजायते प्रजा "ऋचित् " ॥ ५। १।१७१ ॥ इति डः ॥ ३ ॥ १६५॥ स्यादामुष्यायणोऽमुष्यपुत्रः प्रख्यातवप्तृकः । अमुष्यापत्यमामुष्यायणः, नडादित्वादायनणि “ अदसोऽकायनणोः" ॥३॥ २७
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy