________________
२०४
अभिधानचिन्तामणौ-...
सेवन सेवा ॥ १॥ भजनं भक्तिः ॥ २ ॥ परिचरणं परिचर्या ॥ ३ ॥ प्रसाद्यते प्रसादना ॥४॥१६०॥ शुश्रूषणं शुश्रूषा ॥ ५॥ आराधनमाराधना ॥६॥ उपासनमुपास्तिः , उपासनाऽपि ॥ ७ ॥ वरिवःकरणं वरिवस्या " नमोवरिव-" ॥३। ४ । ३७ ॥ इति सेवायां क्यन् ॥ ८ ॥ पर्येषणं परीष्टिः, पर्येषणाऽपि । अमरस्तु-पर्येषणा परीष्टिश्व- श्राद्धे द्विजशुश्रूषेति विशेषमाह ॥ ९ ॥ उपचरणमुपचारः ॥ १० ॥
पदातिस्तु पत्तिः पद्गः पदातिकः ॥ १६१ ॥
पादातिकः पादचारी पादाजिपदिकावपि । पादाभ्यामतति गच्छति पदातिः “ पादाच्चात्यजिभ्याम् " ॥(उणा-६२०)। इति णिदिः " पदः पादस्या-" ॥३ । २ । ९५ ॥ इति पदादेशः ॥ १ ॥ पद्यते पत्तिः “ प्लुज्ञायजि-" ॥ ( उणा-६४६ ) ॥ इति तिः ॥ २ ॥ पादाभ्यां गच्छति पद्गः “हिमहति-" ॥३।२ । ९६ ॥ इत्यत्र मतान्तराश्रयणाद् गे पद्भावः ॥३॥ पादाभ्यामतति पदातिकः " कुशिकहृदिक-"॥ ( उणा-४५) इति इके निपात्यते ॥ ४ ॥ १६१ ॥ एवं पादातिकः, पदातेः स्वार्थे विनयादित्वादिकण् वा ॥ ५ ॥ पादाभ्यां चरति पादचारी ॥ ६ ॥ पादाभ्यामजति गच्छति पदाजिः ॥ ७ ॥ पादाभ्यां चरति पदिकः “ पदिकः” ॥ ६ । ४ । १३ ॥ इतीकटि निपात्यते ॥ ८ ॥ शेषश्चात्र- पादातपदगौ समौ ॥
सरः पुरोऽप्रतोऽग्रेभ्यः पुरस्तो गमगामिगाः ॥ १६२ ॥
प्रष्टः
पुरःप्रभृतिशब्देभ्यः परः सरः, पुरोऽग्रतोऽग्रे च सरति पुरःसरः अग्रतःसरः अग्रेसरः "पुरोऽप्रतोऽग्रे सर्तेः" ॥५। १ । १४० ॥ इति टः, अग्रेगूरपि ॥ १॥ २॥३॥ पुरो गच्छति पुरोगमः, पुरोगः “नाम्नों गमः-"॥५।१।१३१॥ इति खडौ, णिनि पुरोगामी ॥ ४ ॥ ५॥ ६॥ १६२ ॥ प्रतिष्ठते प्रष्ठः “प्रष्ठोऽप्रगे" ॥२॥
३।३२ ॥ इति षत्वम् ॥ ७॥ . . .. . अथावेशिकागन्तू प्राघुणोऽभ्यागतोऽतिथिः। .
प्राघूर्णके अवेशे अप्रतिवेशे भव आवेशिकः । “नैकग्रामीणमतिथिं विप्रं सांगतिकं तथा" इति स्मृतेः । अध्यात्मादित्वादिकम् ॥ १॥ आगच्छत्यागन्तुः “कृसिकम्य-" ॥ ( उणा-७७३) ॥ इति तुन् ॥ २॥ प्राघुणति भ्राम्यति प्राघुणः ॥ ३ ॥ अभ्यागच्छति अभ्यागम्यते स्म वा अभ्यागतः ॥ ४ ॥ अतति सततं गच्छति अतिथिः पुंलिङ्गः “अतेरिथिः” ॥ (उणा-६७३) ॥ आतिथ्योऽपि ।.