SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ २०२ अभिधानचिन्तामणौ.. - संवाहयत्यङ्गानि संवाहकः ॥ १॥ अङ्गानि मर्दयत्यङ्गमर्दः ॥२॥ नष्टबीजस्तु निष्कलः । नष्टं गतं बीजं रेतोऽस्य नष्टबीजः ॥१॥ निर्गतं कलं रेतोऽस्य निष्कलः ॥२॥ आसीन उपविष्टः स्यात् आस्ते आसीनः "आसीनः" ॥ ४ । ४ । ११५ ॥ इत्यानशि साधुः ॥ १॥ उपविशति स्म उपविष्टः ॥ २॥ - ऊर्ध्व ऊर्ध्वन्दमः स्थितः ॥ १५६ ॥ .. ___ऊर्दते परिमाति क्रीडति वा ऊर्ध्वः “उर्ध च" ॥ (उणा-५०७ ) ॥ इति वः ॥ १ ॥ ऊर्ध्वं दाम्यति ऊर्वदमः, अध्यात्मादावूर्ध्वदमपाठान्मोऽन्तः ऊर्ध्वमिति मान्तमव्ययं वा ॥ २ ॥ तिष्ठति स्म कार्याय स्थितः ॥ ३ ॥ १५६ ॥ अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिकदेशिकौ । प्रवासी अध्वानमलंगामी अध्वनीनः अध्वन्यः "अध्वानं येनौ” ॥७॥ १।१०३ ॥ इति साधू ॥१॥२॥ अध्वानं गच्छत्यध्वगः ॥ ३ ॥ पन्थानं नित्यं याति पान्थः "नित्यं णः पन्थश्च" ॥ ६ । ४ । ८९ ॥ इति साधुः ॥ ४॥ पन्थानं याति पथिकः “पथ इकट् ॥ ६ । ४ । ८८ ॥ अदूरविप्रकर्षादनयोः पर्यायत्वम् ॥ ५ ॥ देशो देशान्तरमस्त्यस्य देशिकः ॥ ६ ॥ प्रवसनशीलः प्रवासी ॥ ७ ॥ तद्णो हारिः तेषां पथिकानां गणः सार्थस्तद्गणः, हार्यन्ते प्राप्यन्ते अनया हारिः “खरेभ्यइ:"॥ (उणा-६०६) ॥ १॥ . ___ पाथेयं शम्बलं समे ॥ १५७ ॥ - पथि साधु पाथेयम् " पथ्यतिथि-"॥ ७ । १। १६ ॥ इत्येयण ॥ १ ॥ शाम्यति क्षुदनेन शम्बलं पुंक्लीबलिङ्गः “ शमिकमि- " ॥ (उणा-४९९ ) इति बलः ॥ २॥ १५७ ॥ जङ्घालोऽतिजवः - जङ्ग्रे स्तोऽस्य जङ्घालः “प्राण्यङ्गादातो सः" ॥ ७ ॥ २ ॥ २० ॥१॥ अतिशायी जवोऽस्य अतिजवः ॥ २ ॥ ... जङ्घाकरिको जाजिकः जङ्घा एव करो राज्यदेयोऽस्त्यस्य जङ्घाकरिकः ॥ १ ॥ जनाभ्यां जीवति जानिकः, वेतनादित्वादिकण्; जमाकरोऽपि ।। २ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy