SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ । ३ मर्त्यकाण्डः । कुलमस्त्यस्य कुलिकः, कुलं कायति कुलकः, इत्यमरः ॥ १॥ कुले वणिग्वन्दे श्रेष्ठत्वमस्त्यस्य कुलश्रेष्ठी ॥२॥ सभिको द्यूतकारकः । ___सभा तशालास्त्यस्य सभिकः " नावादेरिकः " ॥ ७१२॥३॥ १॥ द्यूतं करोति द्यूतकारकः ॥२॥ कितवो द्यूतकृद् धूर्ताऽअधूर्तश्चाक्षदेविनि ॥ १४९॥ केतति निवसति यत्र तत्रेति कितवः " कितिकुडि-"॥ (उणा-५१८) ॥ इति किंदवः किं तवास्तीति पणते वा ॥१॥ द्यूतं करोति द्यूतकृत् ॥ २॥ धूर्वति हिनस्ति धूर्तः ॥ ३ ॥ अक्षेषु धूर्तोऽक्षधूर्तः ॥ ४ ॥ अक्षैर्दीव्यति विजिगीषतेऽक्षदेवी तत्र ॥ ५ ॥ १४९ ॥ दुरोददरं कैतवं च द्यूतमक्षवती पणः । दुष्टमासमन्तादुदरमस्य दुरोदरं पुंक्लिबलिङ्गः ॥१॥ कितवस्य कर्म कैतवम् “युपादेरण्" ॥ ७॥ १।६७ ॥ २ ॥ दीव्यते स्म द्यूतं पुंक्तीबलिङ्गः ॥ ३ ॥ अक्षाः सन्त्यस्यामक्षवती ॥४॥ पणनं पणः ॥ ५॥ पाशकः प्रासकोऽक्षश्च देवनः पाश्यते बध्यतेऽनेन पाशकः " नाम्नि पुंसि च" ॥ ५।३।१२१ ॥ इतिणकः ॥ १ ॥ प्रास्यन्ते क्षिप्यन्ते अनेन प्रासकः ॥ २ ॥ अक्ष्णोति अक्षः ॥ ३ ॥ दीव्यन्त्यनेन देवनः ॥ ४ ॥ तत्पणो ग्लहः ॥ १५० ॥ पण्यते पणो बन्धकः तेषु अक्षेषु पणस्तत्पणः, अक्षाणां ग्रहणं ग्लहः "सृग्लहः : : प्रजनाक्षे” ॥ ५॥३॥३१ ॥ इत्यल् ग्रहेश्च सूत्रनिपातनाद् लत्वं, ग्लहिः प्रकृत्यन्तरं वा॥१॥ १५०॥ - अष्टापदः शारिफलं ... ... अष्टौ पदान्यत्र अष्टापदः " नाम्नि " ॥ ३।२७५ ॥ इति दीर्घत्वम्', शारयः फलन्यत्र शारिफलं खेलनाधारश्चतुरङ्गफलकादिः, पुंक्लीबलिङ्गौ शारीणां फलं फलकमिति वा शारिफलकोऽपि ॥ १॥ २॥ शारः शारिश्च खेलनी। शार्यते मार्यते शारः पुंस्त्रीलिङ्गः ॥ १ ॥ शृणन्त्येनो शारिः स्त्रीलिङ्गः, शाब्दिकास्तु परिणायेन शारीन् हन्ति पुंस्यप्युदाहरन्ति " कृशृकुटि-" ॥ (उणा-६१९)। इति णिदिः ॥२॥ खेल्यतेऽनया खेलनी ॥३॥-"...........
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy