________________
अभिधानचिन्तामणौ
संवत्सरः कालोपलक्षणं तं वेत्ति सांवत्सरः ॥ १ ॥ ज्योतींषि अधिकृत्य कृतो ग्रन्थो ज्योतिष, तद्वेत्त्यधीते वा न्यायादित्वादिकाणि ज्यौतिषिकः ॥ २ ॥ मुहूर्त वेत्ति मौहूर्तिकः, न्यायादिपाठादिकण्; मौहूर्तोऽपि ॥ ३ ॥ निमित्तं वेत्ति निमित्तवित्, नैमित्तनैमित्तिकावपि ॥ ४ ॥ दैवं पूर्वकृतं कर्म जानाति दैवज्ञः ॥ ५ ॥ गणयति गणकः ॥ ६ ॥ शुभाशुभमादिशतीत्येवंशील आदेशी ॥ ७ ॥ कालादिज्ञानमस्त्यस्य ज्ञानी ॥ ८ ॥ कृतान्तं वेत्ति कार्तान्तिकः ॥ ९ ॥ १४६ ॥ विप्रश्नो दैवप्रच्छनं, शुभाशुभेक्षणं चाऽस्त्यस्य विप्रश्निकः, ईक्षणिकः ।। १० ।। ११ ॥
सैद्धान्तिकस्तु तान्त्रिकः ।
१९८
सिद्धोऽनिवारितविप्रतिपत्तिरन्तो निष्ठाऽत्र सिद्धान्तः, सिद्धान्तं वेत्ति सैद्धान्तिकः ॥ १ ॥ तन्यते तन्त्र्यते वाऽनेन तन्त्रं पारमेश्वर - वैद्यक - ज्योतिषादि ; तद् वेत्ति तान्त्रिकः || २ ||
लेखकेऽक्षरपूर्वाः स्युश्चणजीवकचञ्चवः ॥ १४७ ॥ वार्णिको लिपिकरश्च
लिखति लेखकस्तत्र ॥ १ ॥ अक्षरशब्दपूर्वाश्चणादयः, अक्षरैर्वित्त अक्षरचणः अक्षरचञ्चुः “तेन वित्ते चञ्चुचणौ ॥७|१|१७५॥ अक्षरैर्जीवति अक्षरजीवकः ॥ २॥३॥४॥१४७॥ वर्णाः शिल्पमस्य वार्णिकः " शिल्पम् " || ६|४|५७॥ इतीकण् ॥ ५ ॥ लिपिं करोति लिपिकरः संख्याऽर्हदिवा- " ।। ५।१।१०२ ॥ इति टः लिविकरोऽपि ॥ ६ ॥
८८
शेषश्चात्र
अथ कायस्थः करणोऽक्षरजीविनि ॥ अक्षरन्यासे लिपिर्लिंविः ।
लिप्यतेऽनया पत्रं लिपिः “ नाम्युपान्त्य - " ॥ ( उणा - ६०९ ) ॥ इति कः, जपादित्वाद् वत्वे लिविः द्वौ स्त्रीलिङ्गौ लिखिताऽपि ॥ १ ॥ २ ॥
मषिधानं मषिकूपी
मषिर्धीयतेऽस्मिन्निति मषिधानं मषीभाजनम् ॥ १॥ मषेः कूपीव मषिकूपी ॥२॥ मलिनाम्बु मषी मसी ॥ १४८ ॥
अञ्जनाक्तत्वाद् मलिनं च तदम्बु च मलिनाम्बु ॥ १ ॥ मषति हिनस्ति औज्ज्वल्यं मषिः, मस्यति परिणमति मसिः पुंस्त्रीलिङ्गौ “पदिपठि " ॥ (उणा - ६०७) ॥ इति इ: ड्यां मषी मसी ॥ २ ॥ ३ ॥ १४८ ॥
कुलिकस्तु कुलश्रेष्ठ