SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः। १९५ भावोऽनामयम् ॥ ३ ॥ सह्यते सह्यं “शकितकि-" ॥ ५।१।२९ ॥ इति यः ॥ ४ ॥ अरोगस्य भाव आरोग्यम् ॥ ५॥ पटूल्लाघवार्तकल्यास्तु नीरुजि ॥ १३८ ॥ पटति आरोग्यं पटुः ॥१॥ उल्लाघते स्म उल्लाघः "अनुपसर्गाः क्षीब-" ॥४।२८०॥ इति ते निपात्यते ॥ २ ॥ वृत्तिरस्याऽस्ति वार्तः ॥३॥ कलयत्यारोग्यं कल्यः “स्थाच्छा-"॥(उणा-३५७) इति यः, कलासु साधुरिति वा ॥४॥ निष्कान्तो रोगाद् नीरुक् तत्र ॥ ५ ॥ १३८ ॥ कुसृत्या विभवाऽन्वेषी पार्श्वकः सन्धिजीवकः । पार्श्वमनृजु उपायो लञ्चादिः, तेनाऽन्वेष्टा पार्श्वकः " दाण्डाजिनिक-" ॥॥१।१७१॥ इति साधुः ॥ १ ॥ सन्धिना जीवति सन्धिजीवकः ॥२॥ सत्कृत्याऽलङ्कृतां कन्यां यो ददाति स कूकुदः ॥१३९।। कोकते आदत्ते धर्म कूकुदः, कुमुदादौ उदे निपात्यते ॥ १॥ ब्राह्मे विवाहे दाताऽयम् , यन्मनु: " आच्छाद्य चाहयित्वा च श्रुतशीलवते खयम् । ___ आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः" ॥१॥ १३९ ॥ शेषश्चात्र-स्यात् कूकुदे तु कूपदः पारिमितः ॥ चपलश्चिकुरः चप्यते चपलः “मृदिकन्दि-" ॥ (उणा-४६५) ॥ इत्यलः ॥ १ ॥ चिनोति चिनुते वा चिकुरः "श्वशुरकुकुन्दुर-" ॥ (उणा-४२६) इत्युरे निपात्यते । यलक्ष्यम्"तां वीक्ष्य लीलाचिकुरामनङ्गः खचापसौन्दर्यमदं मुमोच" ॥२॥ नीलीरागस्तु स्थिरसौहृदः । नील्या इव स्थिरो रागोऽस्य नीलीरागः, स्थिरं सौहृदमस्य स्थिरसौहृदः स्थिरप्रेमा ॥१॥ ___ ततो हरिद्रारागोऽन्यः ततः स्थिरसौहृदादन्यः क्षणमात्रानुरागी हरिद्राया इव क्षणिको रागोऽस्य हरिद्रारागः ॥१॥ सान्दस्निग्धस्तु मेदुरः ॥ १४० ॥ . सान्द्रः पीनः स चासौ स्निग्धश्च ॥१॥ मेद्यतीत्येवंशीलो मेदुरः " भजिभासि-"॥५।२।७४॥ इति घुरः ॥ २ ॥ १४० ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy