SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः । १९३ छर्दनं छर्दिः, स्त्रीक्लीबलिङ्गः, तत्र “ पदिपठि-" ॥ ( उणा-६०७ ) ॥ इति इः ॥ १॥ प्रच्छर्दनं प्रच्छर्दिका ॥२॥ छ्णर्ति छर्दनं वा छर्दिः, स्त्रीलिङ्गः “रुच्यचिं." ॥ (उणा-९८९) ॥ इति इस् ॥ ३ ॥ वम्यते वमथुः, पुंलिङ्गः, द्वित्त्वादथुः ॥ ४ ॥ अनटि वमनम् ॥ ५ ॥ वमिः, स्त्रीलिङ्गः, “ पदिपठि-" ॥(उणा-६०७)। इति इः ॥६॥ गुल्मः स्यादुदरग्रन्थिः गुप्यत्यऽनेन गुल्मः, पुंक्लीबलिङ्गः “ रुक्मग्रीष्म-" ॥ (उणा-३४६) ॥ इति मे निपात्यते ॥ १॥ उदरे ग्रन्थिरुदरप्रन्थिः ॥ २ ॥ उदावर्तो गुदग्रहः ॥ १३३ ॥ ऊर्ध्वमावर्तते वायुरस्मिन्नुदावर्तः ॥ १॥ गुदे ग्रहणं गुदग्रहः ॥२॥१३३॥ गतिर्नाडीव्रणे गच्छत्यनया रुधिरं गतिः ॥ १॥ नाडीयुक्तं व्रणं नाड्या वा व्रणं नाडीव्रणः, लिङ्गेषु प्रतिपदपाठात् पुंलिङ्ग एव ॥ २ ॥ वृद्धिः कुरण्डश्चाण्डवर्धने । वर्धतेऽण्डोऽस्यां वृद्धिः ॥ १ ॥ कुत्सितं रमतेऽनेन कुरण्डः “पञ्चमाद् डः” ॥ ( उणा-१६८ ) ॥ इति डः, अण्डस्य वर्धनं वृद्धिस्तत्र ॥ २ ॥ अश्मरी स्यान्मूत्रकृच्छ्रे अश्माभं शुक्र राति ददाति अश्मरी ॥१॥ मूत्रस्य कृच्छं मूत्रकृच्छं तत्र ॥२॥ प्रमेहो बहुमूत्रता ॥ १३४ ॥ प्रमेहति मूत्रयत्यनेन प्रमेहः, मेहोऽपि ॥ १ ॥ १३४ ॥ ___ आनाहस्तु विबन्धः स्यात् आनहनं विण्मूत्रनिरोधः आनाहः १ ॥ विबन्धनं विबन्धः ॥२॥ - ग्रहणीरुक् प्रवाहिका । गृह्णाति ग्रहणी जाठरोऽग्निस्तच्छैथिल्याद् रुग् रोगः ॥१॥ मलप्रवहणं प्रवाहिका ॥१॥ ____ व्याधिप्रभेदा विद्रधिभगन्दरज्वरादयः ॥ १३५ ॥ वोत्त पीडामत्र विद्रधिः “ विदो रधिक् ” ( उणा-६७६ ) ॥ इति रधिक् । विद्रो धीयतेऽस्यामिति वा स्त्रीलिङ्गोऽयम् , पुंस्यपि वैजयन्ती, यदाह-'विद्रधिर्न षण्'। १॥ भगं दारयति भगन्दरः, स्फिटति सन्धौ पिटकं "पुरन्दरभगन्दरौ' ।।५।१।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy