________________
१९२
अभिधानचिन्तामणौ
सिध्म किलासं त्वक्पुष्पं सिध्मं सिध्यति सिध्म, क्लीबलिङ्गः “ कुष्युषि-” ( उणा-९१२ ) इति बहुवचनात् किद् मन् ॥ १॥ किलति श्वेतते किलासम् “किलेः कित्" ॥ (उणा-५७५)॥ इत्यासः ॥ २॥ त्वचः पुष्पमिव त्वक्पुष्पम् ॥ ३ ॥ सिध्यति सिध्मं, त्वग्रोगः "विलिभिलि." ॥ (उणा-३४०) ॥ इति किद् मः ॥ ४ ॥
कोठस्तु मण्डलम् । कुठिः सौत्रः, कोठयत्यङ्ग कोठः, कुण्ठयत्यङ्गमिति वा “षष्टैधिष्ठादयः” । (उणा-१६६) इति साधुः ॥१॥ मण्डलाकृतित्वाद् मण्डलम् , त्रिलिङ्गः, मण्डलकमपि ॥२॥
गलगण्डो गण्डमालः मले गण्डो गलगण्डः ॥ १॥ गण्डान् स्फोटान् मलते गण्डमालः ॥ २॥
रोहिणी तु गलाङ्कुरः ॥ १३१ ॥ रोहयत्यवश्यं रोहिणी ॥ १ ॥ गलेऽङ्कुरो गलाङ्कुरः ॥ २ ॥ १३१॥ . ___ हिक्का हेक्का च हृल्लासः
हिक्कत्यनया हिक्का ॥ १ ॥ हेगिति कायति हेक्का ॥ २ ॥ हृदयं लसत्यनेन हृल्लासः " हृदयस्य हृल्लास-" ॥ ३ । २ । ९४ ॥ इति हृदादेशः ॥ ३ ॥
प्रतिश्यायस्तु पीनसः । प्रतिश्यायते श्रवति प्रतिश्यायः " तन्व्यधी-" ॥५। १ । ६४ ॥ इति णः ॥ १॥ पीनं स्यति अन्तं नयति पीनसः ॥ २ ॥ .
शोथस्तु श्वयथुः शोफे - शवति विसर्पति शोथः, पुंलिङ्गः ; क्लीबेऽपि वैजयन्ती, यदाह-'शोथोऽस्त्री श्वयथुः शोफः,' “ कमिग्र." ॥ ( उणा-२२५ ) ॥ इति बहुवचनात् थः ॥१॥ श्वयति अनेन श्वयथुः, पुंलिङ्गः, वित्त्वादथुः ॥२॥ श्यति धातून शोफः "शफकफ-" ॥ ( उणा-३१६ ) ॥ इति फे निपात्यते, तत्र ॥ ३॥ .
दुर्नामाऽझे गुदाङ्कुरः ॥ १३२ ॥ पापरोगत्वाद दुष्टं नाम अस्य दुर्नामा ॥ १॥ इयति पीडामनेन अर्शः. क्ली. बलिङ्गो, " अर्तेरुराशी च" ॥ ( उणा-९६७) ॥ इत्यस् ॥ २॥ गुदस्याऽङ्कुरो गुदाङ्कुरः, गुदकीलोऽपि ॥ ३ ॥ १३२ ॥
छौ प्रच्छर्दिका छर्दिवमथुर्वमनं वमिः ।।