________________
१ देवाधिदेवकाण्डः।
उदेति धर्मोऽस्मादित्युदयः ॥ ७॥ पठति तत्त्वं पेढालः “चात्वालकङ्काल-" ॥ ( उणा-४८० )॥ इत्यादिशब्दादालान्तो निपात्यते ॥ ८ ॥ पोटयति भासते पुटति जन्मत एव ज्ञानत्रयेण श्लिष्यतीति वा पोट्टिलः। “स्थण्डिलकपिल-"॥(उणा-४८४)। इत्यादिशब्दान्निपात्यते ॥ ९ ॥ शतं बह्वयः कीर्तयोऽस्य शतकीर्तिः ॥१०॥ शोभनं व्रतमस्य सुव्रत: ॥११॥ ५४ ॥ नास्ति ममताऽस्य अममः ॥ १२ ॥ निर्गता कषाया अस्मात् निष्कषायः ॥ १३ ॥ निश्चितं पोलयति ज्ञानेन महान् भवति निष्पुलाकः "शुभिगृहिविदिपुलिगुभ्यः कित्" ॥ (उणा-३५) ॥ इत्याकः ॥ १४ ॥ निर्गता ममताऽस्मात् निर्ममः ॥ १५ ॥ चित्राण्याश्चर्यकारीणि गुप्तानि मनोवाक्कायगुप्तयोऽस्य चित्रगुप्तः ॥ १६ ॥ सदा समाधियुक्तत्वात् समाधिः ॥ १७ ॥ संवर आश्रवनिरोधोऽस्त्यस्य संवरः ॥ १८॥ यशो धरति यशोधरः ॥ १९ ॥ ५५ ॥ विजयते जन्मादिकल्याणैर्विजयः ॥ २० ॥ कर्मभटानां मल्ल इव मल्लः ॥ २१ ॥ दीव्यति ज्ञानश्रिया देवः ॥ २२ ॥ अनन्तं वीर्य बलमस्याऽनन्तवीर्यः ॥ २३ ॥ भद्रं करोति भद्रकृत् । भद्रोऽपि २४ ॥
उपसंहारमाह" एवं सर्वावसर्पिण्युत्सर्पिणीषु जिनोत्तमाः ॥ ५६ ॥ एवमिति चतुर्विंशतिश्चतुर्विंशतिः, सर्वासु वर्तमानातीतानागतासु अवसर्पिण्युत्सर्पिणीषु कालविशेषेषु जिनोत्तमास्तीर्थकरा भवन्ति इति ॥ ५६ ॥
तेषां च देहोऽभूतरूपगन्धो निरामयः स्वेदमलोज्झितश्च । श्वासोऽब्जगन्धो रुधिरामिषं तु गोक्षीरधाराधवलं ह्यविस्रम् ॥५७॥ आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशयाः सहोत्थाः ।
तेषामिति तीर्थकराणां, देहः काय: अद्भुतं लोकोत्तरं रूपं गन्धश्च यस्य स तथा, निरामयो नीरोगः, खेदेन अङ्गजलेन मलेन च त्वगावारककिटेनोज्झितः स्वेदमलोज्झितः एष प्रथमः सहोत्थोऽतिशयः॥श्वास उच्छ्वासनिःश्वासं, अब्जं पद्मं तस्यैव गन्धोऽस्याब्जगन्धः इति द्वितीयः ॥ रुधिरं चामिषं चः “अप्राणिपश्वादेः" ॥३।१।१३६॥ इति समाहारे रुधिरामिषं मांसशोणितं, गोक्षीरधारावद्धवलं पाण्डुरम् , अविलं, अनामगन्धि इति तृतीयः ॥५७॥ आहारोऽभ्यवहरणं नीहारो मूत्रपुरीषोत्सर्गस्तयोविधिः क्रिया न दृश्यते इति अदृश्य मांसचक्षुषा न पुनरवध्यादिलोचनेन पुंसा । यदाहुः“पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा" एष चतुर्थः ॥ एते चत्वारोऽपि जगतोऽप्यतिशेरते तीर्थकरा एभिरित्यतिशयाः, सहोत्थाः सहजन्मानः ॥