________________
.१८
अभिधानचिन्तामणौअनिलो यशोधराख्यः कृतार्थोऽथ जिनेश्वरः ॥ ५२ ॥
शुद्धमतिः शिवकरः स्यन्दनश्चाथ संप्रतिः। उत्सर्पिण्यामिति दशसागरोपमकोटीकोटिप्रमाणायां कालविशेषे, अतीतायामिति अतिक्रान्तायां, तीर्थकराणां चतुर्विंशतिः । यथा-केवलज्ञानमस्यास्ति केवलज्ञानी ॥ १॥ निर्वाणमस्त्यस्य निर्वाणी ॥ २ ॥ गाम्भीर्येण सागर इव सागरः ॥ ३ ॥ महद् व्यापकत्वाद्यशोऽस्य महायशाः ॥ ४ ॥ ५० ॥ विगतो मलोऽस्य विमलः ॥ ५॥ सर्वत्र सर्वचत्वाद् अनुभूतिरस्य सर्वानुभूतिः ॥ ६ ॥ मुक्तिश्रियं धरति श्रीधरः॥ ७ ॥ दानं दत्तं तदस्यास्ति दत्तः स चासौ तीर्थकृच्च दत्ततीर्थकृत् ॥ ८ ॥ जन्माभिषेके सुरैः क्षिप्तं पुष्पदाम कण्ठाल्लम्बमानमुदरेऽस्य दामोदरः ॥ ९ ॥ शोभनमाह्लादकत्वात् तेजोऽस्य सुतेजाः ॥ १०॥ जगतां स्वाम्यात् स्वामी ॥ ११॥ मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः ॥ १२॥५१॥ शोभना मतिरस्य सुमतिः ॥१३॥ शिवे मोक्षे गतिरस्य शिवगतिः ॥ १४ ॥ न विद्यते गाम्भीर्यात् स्तागो लब्धमध्यताऽस्य अस्तागः ॥ १५ ॥ परीषहोपसर्गादिनामनानिमिः "-नमेस्तु वा" ॥ (ठणा-६१३)॥ इति उपान्त्यस्य वेत्वं, स चासौ ईश्वरश्च निमीश्वरः ॥१६॥ अनिल इव महाबलत्वाद् अनिल: ॥ १७ ॥ यशांसि धरति यशोधरः ॥ १८ ॥ कृतोऽर्थः पूजाऽस्य कृतार्थः ॥ १९ ॥ जिनश्चासावीश्वरश्च जिनेश्वरः ॥ २० ॥ ५२ ॥ शुद्धा निर्मला मतिरस्य शुद्धमतिः ॥ २१ ॥ शिवं करोति शिवकरः ॥ २२ ॥ स्यन्दते देशनामृतं स्यन्दनः ॥ २३ ॥ नित्यप्रवृत्तत्वेन ध्यायमानत्वात् संप्रतिः ॥ २४ ॥
भाविन्यां तु पद्मनाभः शूरदेवः सुपार्श्वकः ॥ ५३ ॥ खयंप्रभश्च सर्वानुभूतिर्देवश्रुतोदयौ । पेढालः पोट्टिलश्चापि शतकीर्तिश्च सुव्रतः ॥ ५४ ॥ अममो निष्कषायश्च निष्पुलाकोऽथ निर्ममः । चित्रगुप्तः समाधिश्च संवरश्च यशोधरः ॥ ५५ ॥
विजयो मल्लदेवौ चानन्तवीर्यश्च भद्रकृत् । भाविन्यामित्यागामिन्यामुत्सर्पिण्यां चतुर्विंशति: तीर्थकराः । यथा-पद्मं नाभावस्य पद्मनाभ: । " नाभेनानि" ॥१३॥१३४॥ इत्यप्समासान्तः ॥ १॥ रागाद्यरीन् प्रति शूरो विक्रमी स चासौ देवश्च शूरदेवः ॥ २ ॥ शोभनौ पाश्वौं अस्य सुपार्श्वः खार्थिके के सुपार्श्वकः ॥३॥५३॥ स्वयं प्रकर्षण भाति स्वयंप्रमः ॥४॥ सर्वज्ञत्वात् सर्वानुभूतिरस्य सर्वानुभूतिः ॥ ५॥ देवैः श्रुतः प्रतीतो देवश्रुतः ॥ ६ ॥