SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ३ मयंकाण्डः । १८९ एकदेशविकृतस्यानन्यत्वात् अतिसारशब्दादपि “वातातीसार-" ॥७॥२॥६१॥ इत्यादिना इन कंश्चान्तो भवति, अतीसारक्यपि ॥२॥ वातकी वातरोगी स्यात् चातोऽस्याऽस्ति वातकी, “वातातीसार-"।७।२१६१॥ इति इन् कश्चान्तः ॥२॥ श्लेष्मल: श्लेष्मणः कफी ॥ १२४ ॥ श्लेष्मा अस्त्यस्य श्लेष्मलः, सिध्मादित्वाल्लः ॥ १॥ अङ्गादित्वादने, श्लेष्मणः ॥ २ ॥ कफोऽस्याऽस्तीति कफी ॥ ३ ॥ १२४ ॥ क्लिन्ननेत्रे चिल्लचुल्लो पिल्लः क्लिन्नं नेत्रं यस्य स क्लिननेत्रः, क्लिन्नं च तन्नेत्रं चेति कर्मधारयो वा; तेन क्लिन चक्षुश्चिल्लं चुलं पिलम् “ क्लिन्नालश्चक्षुषि चिल् पिल चुल चास्य" ॥ ७।१।१३० ॥ इति ले साधवः, तद्योगात् पुरुषोऽपि चिल्लः, चुल्लः, पिल्लः ॥ ४ ॥ अथाऽशेयुगर्शसः । अर्शसा युज्यते अर्घायुक् ॥१॥अर्शोऽस्त्यस्य अर्शसः, अभ्रादित्वाद् अः॥२॥ मूर्छिते मूर्तमूर्छालौ मूर्छा संजाता अस्य मूर्छितस्तत्र ॥ १॥ मूर्छति स्म मूर्तः आदित्त्वात् क्ते इडभावः ॥२॥ मूर्छा अस्त्यस्य मूर्छाल: "सिध्मादि-" ॥७॥२॥२१॥ इति लः ॥३॥ सिध्मलस्तु किलासिनि ॥ १२५ ॥ - सिध्माऽस्याऽस्ति सिध्मल सिध्मादित्वाल्लः ॥ १॥किलासमस्त्यस्य किलासी तत्र ॥ २ ॥ १२५ ॥ - पित्तं मायुः - पीयते जलमनेन, पतति संसते वा पित्तम् “ पुतपित्त-" ॥ (उणा-२०४)॥ इति ते निपात्यते ॥ १॥ मिनोति मलान् संसकत्वात् मायुः, पुंलिङ्गः “ मिवहि-" . (उणा-७२६ ) ॥ इति णिद् उः ॥ २॥ शेषश्चात्र-पित्ते पलाग्निः पललज्वरः स्यादग्निरेचकः ॥ . कफः श्लेष्मा बलाशः स्नेहभूः खटः । कायत्यनेन कफः “शफकफ-" ॥ ( उणा-३१६ ) ॥ इति फे निपात्यते, कात् फलतीति वा ॥१॥ श्लिष्यति हृदयादौ श्लेष्मा “ मन्” ॥ (उणा-९११) । इति मन् ॥ २ ॥ बलमश्नाति बलाशः ॥ ३ ॥ स्नेहाद्भवति स्नेहभूः ॥ ४ ॥ खटति खटः ॥ ५ ॥ शेषश्चात्र-कफे शिवानकः खेटः ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy