SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १८६ अभिधानचिन्तामणौ जक् ॥ कुत्सितः उब्ज इति वा पृषोदरादित्वात् , तत्र न्युब्जोऽपि॥ १॥ गडुः पृष्ठग्रन्थिरस्यास्ति गडुलः सिध्मादित्वालः ॥ २ ॥ कुकरे कुणिः ॥ ११७ ॥ कुत्सितः करो बाहुरस्य पाणिवैकल्यात् कुकरः तत्र ॥१॥ कुण्यते निन्द्यते कुणिः " नाम्युपान्त्य-" ॥ (उणा-६०९) ॥ इति किदिः ॥ कौतीति वा“ऋत्घृ." ॥ ( उणा-६३५) ॥ इति कित् णिः; कुत्सितः पाणिरस्येति नैरुक्ताः ॥२॥११७॥ निखर्वः खट्टनः खर्वः खर्वशाखश्च वामनः । नितरां खर्वति निखर्वः ॥ १ ॥ 'खट्टण संवरणे' खट्टयति खट्टनः ॥२॥खर्वति खर्वः ॥ ३ ॥ खर्वाः शाखाः करचरणलक्षणा अस्य खर्वशाखः ॥ ४ ॥ वामनशब्दोऽत्र करचरणह्रखे शरीरे वर्तते, ततो वामा अस्यास्ति वामनः "नोऽङ्गादेः"॥॥२॥२९॥ इति नः ॥ ५ ॥ - शेषश्चात्र-खर्वे ह्रस्वः । अकर्ण एडो बधिरः अविद्यमानौ कर्णावस्य अकर्णः श्रुतिविकलः ॥ १॥ एडः पशुरिव, आई. ड्यते वा ॥ २ ॥ बन्नाति को बधिरः “शुषीषि-" ॥ (उणा-४१६) ॥ इति किंदिरः ॥ ३ ॥ दुश्चर्मा तु द्विनग्नकः ॥ ११८ ॥ वण्डश्च शिपिविष्टश्च असम्पूर्णत्वात् निन्दितं शेफाग्रस्य चर्माऽस्य दुश्चर्मा, शैशवे निश्चर्माऽप्रशिश्नत्वात् निराच्छादनत्वाच्च ॥ १ ॥ द्विननो द्विनग्नकः ॥ २ ॥ ११८ ॥ वण्डते पिधत्ते वण्डः वनति वा “पञ्चमाड्डः" ॥ ( उणा-१६८) ॥ इति डः ॥ ३ ॥ शिपिश्चर्म विष्टं दोषव्याप्तमस्य शिपिविष्टः ॥ ४ ॥ खोडखोरौ तु खञ्जके। . खोडति गतौ प्रतिहन्यते खोडः 'खोड प्रतीघाते' ॥१॥ खोरति खोरः ॥२॥ खजति खञः, के खञ्जकस्तत्र ॥ ३ ॥ विकलाङ्गस्तु पोगण्डः विकलाङ्गः ॥ १ ॥ पूयते अपसार्यते पोगण्डः "पूगोगादि:-"॥(उणा-१७४)॥ इत्यण्डः ॥२॥ ऊर्ध्वजुरू जानुकः ॥ ११९ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy