SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः। १८५ - नासिकायां क्षुद्रो नःक्षुद्रः “ नस् नासिकायाः- " ॥ ३।२।९९ ॥ इति नसादेशः ॥ १॥२॥ ११५ ॥ खुरणाः स्यात् खुरणसः खुराकृतिर्नासिकाऽस्य खुरणाः ॥ १ ॥ खुरणसः विकटघोणः ॥२॥ उन्नसस्तूग्रनासिकः । उन्नता उद्गता वा नासिकाऽस्य उन्नसः “ उपसर्गात् " ॥ ७।३।१६२ ॥ इति नसः समासान्तः ॥१॥ ___ पङ्गुः श्रोणः पायति शुष्यति पादवैकल्यात् पङ्गुः “ प्रीकैपैनीले:- " ॥ (उणा-७६१) ॥ इत्यङ्गुक् ॥ १ ॥ 'श्रोण सङ्घाते' श्रोणति श्रोणः ॥ २ ॥ शेषश्चात्र पङ्गुलस्तु पीठसी। खलतिस्तु खल्वाट ऐन्द्रलुप्तिकः ॥ ११६ ॥ शिपिविष्टो बभ्रुः खलन्ति केशा अस्मादिति खलतिः, भीमादित्वादपादाने " खल्यमि-"॥ ( उणा-६५३ ) ॥ इत्यतिः ॥ १ ॥ “कपाटविराट-''॥ ( उणा-१४८ ) ॥ इत्याटे निपातनात् खल्वाटः खलतोऽपि ॥२॥ इन्द्रलुप्तं केशघ्नं तेन चरत्यैन्द्रलुप्तिकः ॥३॥११६॥ शिपिश्चर्म विष्टं दोषव्याप्तमस्य शिपिविष्टः ॥ ४ ॥ बिभर्ति निष्केशितां बभ्रुः “ हनिया-" ॥ (उणा-७३३) ॥ इति किदुर्द्वित्वं ॥ ५ ॥ अथ काणः कनन एकदृक् । 'कणण् निमीलने' काणयति चक्षुः काणः ॥ १॥ कनति दीप्यते एकदृष्टया कननः ॥ २ ॥ एकहक् एकाक्षः ॥३॥ पृश्निरल्पतनौ • पृच्छति पृश्निः “लूधूप्रच्छिभ्यः कित्" ॥ (उणा-६७९) इति निः ॥ १॥ भल्पा तनुरस्य अल्पतनुस्तत्र ॥२॥ शेषश्चात्रकिरातस्त्वल्पवर्मणि ......... ___ कुब्जे गडुलः - कूयते कुजो वक्रनताङ्गः " कुवः कुकुनौ च " ॥ ( उणा-१२९ ) ॥ इति
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy