SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ . ३ मर्यकाण्डः । १८३ द्वन्द्वः, अर्हणमर्हणा ॥ २ ॥ सपरेति धातुः कण्ड्वादौ तस्माद् यकि “ शंसिप्रत्ययात्" ॥ ५।३।१०५ ॥ इत्यप्रत्यये च सपर्या ॥ ३ ॥ अर्चनमर्चा ॥ ४ ॥ शेषश्चात्र-पूजा त्वपचितिः ॥ उपहारबली समौ ॥ १११॥ उपह्रियते देवार्थमुपहारः ॥ १॥ बलत्यनेन बलिः, पुंस्त्रीलिङ्गः “पदिपठि-" ॥ (उणा-६०७) ॥ इतीः ॥२॥१११॥ विक्लवो विह्वलः क्लविर्धातुर्गणाऽपरिसमाप्तेलौकिकः, विक्लवते कातरीभवति विक्लवः ॥ १॥ विरुद्ध ह्वलति विह्वलः ॥ २॥ स्थूलः पीवा पीनश्च पीवरः । तिष्टत्युपचयेन “ स्थाविडेः कित्" ॥ (उणा-४२९) ॥ इत्यूरे स्थूरः, लत्वे स्थूलः, 'स्थूलणि परिवहणे' इत्यस्य वाऽच् ॥ १ ॥ प्यायते पीवा “ध्याप्योर्धीपी च" ॥ ( उणा-९०८) ॥ इति कनिप् ॥ २ प्यायते स्म पीनः “ सूयत्यादि-" ॥४॥२७०॥ इति तस्य नत्वे " क्तयोरनुपसर्गस्य "॥४।१।९२॥ इति प्यायः पीरादेशः ॥३॥ प्यायते पावरः “ तीवरधीवर-" ॥ ( उणा-४४४ ) ॥ इति वरटि निपात्यते ॥ ४॥ चक्षुष्यः सुभगः चक्षुषे हितश्चक्षुष्यः, यं दृष्ट्वा चक्षुः प्रह्लादते “ प्राण्यङ्गरथ-"॥१॥३७॥ ' इति यः ॥१॥ शोभनो भगो.रूपं श्रीर्वा यस्य स सुभगः ॥ २ ॥ द्वेष्योऽक्षिगतः द्वेषणीयो द्वेष्यः ॥ १ ॥ आक्षगतो यथा किंशारुकादिः खेदकृत् ॥ २ ॥ अथांसलो बली ॥ ११२ ॥ निर्दिग्धो मांसलश्चोपचितः .' अंसावस्य स्तः अंसलः सिध्मादित्वाद् लः ॥१॥ बलमस्त्यस्य बली, बलवानपि ॥२॥११२॥ निर्देग्धि स्म निर्दिग्धः ॥३॥ मांसमस्त्यस्य मांसलः ॥४॥ उपचीयते स्मोपचितः ॥ ५॥ १ "आक्षिगतो यथा किंशारुकादिः खेदकृत् तथाऽयमपीति भावः, अक्षिगतशब्दो यथा प्रियो हितत्वेन व्यपदिश्यते, तथा शत्रुरपि सदा रुषा दृश्यमानत्वात् भाक्षिगतत्वेनेति व्यपदिश्यते इति मिश्राः" इति व्युत्पत्तिरत्नाकरे ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy