SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ .. ३ मर्त्यकाण्डः। १८१ भवः-पराभवः; परिभवः; अभिभवः ॥ ५ ॥ ६ ॥ ७॥ १०५ ॥ अत्याकरणमत्याकारः ॥ ८ ॥ निकरणं निकारः ॥ ९ ॥ विप्रलब्धस्तु वञ्चितः । विप्रलभ्यते स्म विप्रलब्धः ॥ १ ॥ वञ्च्यते स्म वञ्चितः ॥ २॥ खप्नक् शयालर्निद्रालुः खापशीलः स्वप्नक् " तृषिधृषि-" ॥ ५। २ । ८० ॥ इति नजिङ् ॥१॥ शयनशीलः शयालुः; निद्रातीत्येवंशीलो निद्रालुः “ शीशद्धा-" ॥५॥२॥३०॥ इत्यालुः ।। २ ॥ ३ ॥ - घूर्णिते प्रचलायितः ॥ १०६ ॥ घूर्णते स्म घूर्णितस्तत्र ॥ १॥ प्रचला निद्राविशेषो यस्यामुपविष्टोऽपि घूर्णते, अप्रचलावान् प्रचलावान् भवति स्म प्रचलायितः, लोहितादित्वात् क्यङि कः; प्रचलइवाचरितो वा ॥ २ ॥ १०६ ॥ निद्राणः शयितः सुप्तः निद्राति स्म निद्राणः ॥१॥ शेते स्म शयितः ॥२॥ स्वपिति स्म सुप्तः ॥३॥ जागरूकस्तु जागरी। जागरणशीलो जागरूकः “जागुः ॥५॥२॥४८॥ इत्यूकः, जागरिताऽपि ॥१॥ जागरोऽस्त्यस्य जागरी ॥ २॥ जागर्या स्याज्जागरणं जागरा जागरोऽपि च ॥ १०७ ॥ जागर्यते जागर्या, जागरा "जागुरश्च" ॥५।३।१०४॥ इत्ययौ, घत्रि जागरः .. "जागुर्बिणवि" ॥४॥३॥५२॥ इति नियमादत्र वृद्धयभावः ॥४॥१०७॥ विष्वगञ्चति विष्वद्या विष्वक् सर्वतोऽर्थेऽव्ययम् , “ सर्वादिविष्वक्-" ॥३।२।१२२ ॥ इति उद्रौ विष्वद्या ॥१॥ देवव्यङ् देवमञ्चति । स्पष्टम् ॥ १॥ सहाञ्चति तु सध्यङ् स्यात् “सहसमः-" ॥३।२।१२३॥ इति सध्यादेशे सध्यङ् ॥१॥ - १ 'अयं तालव्यमध्योऽपि ' इति श्रीदेवसागरगणयः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy