________________
. ३ मर्त्यकाण्डः।
१७९
मत्ते शौण्डोत्कटक्षीवाः मद्येन माद्यति स्म मत्तस्तत्र ॥ १ ॥ शुण्डा मदिरा तस्यां भवः शौण्डः; शुण्डाऽस्त्यस्य वा, ज्योत्स्नादित्वादण् ॥ २ ॥ उद्रिक्तः उत्कटः “संप्रोन्नेः-" ॥ ७॥ १। १२५ ॥ इति कटः; उत्क्रान्तकटीच्छादनो वा ॥३॥ क्षीबते क्षीबः " अनुपसर्गाः-" ॥ ४ । २ । ८० ॥ इति के निपात्यते ॥ ४ ॥
उत्कस्तृत्सुक उन्मनाः।
उत्कण्ठितः उद्गतं मनोऽस्य उत्कः “ उदुत्सोः-” ॥ ॥१।१९२ ॥ इति कः ॥१॥ उद्गतं मनोऽस्य उत्सुकः “ उदुत्सोरुन्मनसि" ॥ १।१९२ ॥ इति कः ॥ २ ॥ उद्गतं मनोऽस्य उन्मनाः ॥ ३ ॥ उत्कण्ठा संजाताऽस्योत्कण्ठितः ॥ ४ ॥ 'इष्टार्थोयुक्त उत्सुकः' इत्यमरः पृथगाह ।।
__ अभिशस्ते तु वाच्यक्षारितदूषिताः ॥ १० ॥ __अभिशस्यते स्माभिशस्तस्तत्र ॥ १॥ वननीयो वाच्यः ॥ २ ॥ क्षार्यते खरूपाच्चाल्यते स्म क्षारितोऽलीकोत्पन्नपातकन्यपदेशः; आक्षारितोऽपि ॥ ३ ॥ दूष्यते स्म दूषितः, मैथुनं प्रतीत्येके ॥ ४ ॥ १०॥
गुणैः प्रतीते त्वाहतलक्षणः कृतलक्षणः । आहतान्युद्धोषितानि लक्षणान्यस्य आहतलक्षणः ॥ १॥ कृताः प्रसिद्धा लक्षणरूपा गुणा अस्य कृतलक्षणः ॥ २॥
निर्लक्षणस्तु पाण्डुरपृष्ठः - निर्गतानि लक्षणान्यस्य निर्लक्षणः ॥ १॥ पाण्डुरं निर्लक्षणं पृष्ठमस्य पाण्डुरपृष्ठः ॥ २॥
. संकसुकोऽस्थिरे ॥ १०१ ॥ . संकसति संकसुकः “ संविभ्यां कसेः" ॥ ( उणा-५२ ) ॥ इत्युकः ॥१॥ अस्थिरवपलस्तत्रं ॥ २ ॥ १.१॥
- तूष्णींशीलस्तु तूष्णीकः
तूष्णींभावः शीलमस्य तूष्णीकः " तूष्णीकः " ॥६।४।६१॥ इति के निपात्यते ॥ १॥२॥ .
विवशोऽनिष्टदुष्टधीः। विरुद्धं वष्टि कामयते विवशः; अनिष्टा दुष्टा च धीर्यस्य स तथा ॥ १ ॥
बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः ।। १०२॥