________________
१७८
अभिधानचिन्तामणौ
न धृष्णोति अधृष्टस्तत्र ॥ १॥ शालाप्रवेशनमर्हति शालीनः “शालीनकौपीन-" ॥ ६।४।१८५ ॥ इति निपात्यते ॥ २ ॥ शारदो नव इव सर्वत्र शारदः, . स्खलद्गतित्वात् ॥ ३॥
शुभंयुः शुभसंयुक्तः शुभमिति विभक्त्यन्तप्रतिरूपकमव्ययं; शुभमस्याऽस्ति शुभंयुः "ऊर्णाऽहम्-" ॥ ७॥२।१७ ॥ इति युस् ॥१॥
स्यादहंयुरहंकृतः ॥ ९७ ॥ अहमित्यव्ययम् ; अहमस्याऽस्ति अहंयुः ॥१॥ अहंकारी ॥२॥९॥ ..
कामुकः कमिता कम्रोऽनुकः कामयिताऽभिकः ।
कामनः कमरोऽभीकः कमनशीलः कामुकः “ शकम-"॥ ५।२।४० ॥ इत्युकण् , तृनि कमिता; कामयिता च, “ स्म्यजस-" ॥ ५।२।७९ ॥ इति रे कम्रः ॥१॥२॥३॥४॥ अनु कामयते अनुकः “ अनोः कमितरि" ॥ ७।१।१८८ ॥ इति कः ॥ ५॥ अभि कामयतेऽभिकः; अभीकश्च “अभेरीश्च वा" ॥११८९॥ इति के साधू ॥६॥७॥ " इष्टितः " ॥५।२।४४॥ इत्यने कामनः; कमनोऽपि ॥ ८॥ कामयते कमरः " ऋच्छिचटि" ॥ ( उणा-३९७ ) इत्यरः ॥ ९॥ .
पञ्चभद्रस्तु विप्लुतः ॥९८॥
व्यसनी पञ्च भद्राणि कल्याणानि अस्य पञ्चभद्रोऽभद्रः; विपरीतलक्षणया भद्रमुखवत् ॥१॥ विप्लवते स्म विप्लुतः ॥२॥९८॥ द्यूतपरस्त्रीप्रमुखाणि व्यसनान्यस्य सन्ति व्यसनी ॥ ३ ॥
हर्षमाणस्तु प्रमना हृष्टमानसः ।
विकुर्वाणः हर्षति इत्येवंशीलो हर्षमाणः “वयःशक्ति." ॥ ५। २ । २४ ॥ इति शानः ॥१॥ प्रहृष्टं मनोऽस्य प्रमनाः ॥ २ ॥ हृष्टं मानसमस्य हृष्टमानसः ॥ ३ ॥ हर्षाद् विकारं याति विकुर्वाणः ॥ ४ ॥
विचेतास्तु दुरन्तर्विपरो मनाः ॥ ९९ ॥ विरुद्धं चेतोऽस्य विचेताः ॥ १॥ दुरन्तर्विभ्यः परो मनःशब्दः दुर्मनाः; अन्तर्मनाः; विमनाः; दुष्टमन्तीनं विरुद्धं च मनोऽस्येति कृत्वा ॥ २॥३॥४॥९९ ॥