________________
१७०
अभिधानचिन्तामणौ
लवणे स्यात् तु लावणम् । लवणे संस्कृतं लावणम् “संस्कृते भक्ष्ये" ॥६।२।१४०॥ इत्यण् ॥ १॥
पैठरोख्ये उखासिद्धे - उखायां स्थाल्यां सिद्धे संस्कृते; पिठरे संस्कृतं पैठरम् ॥१॥ उखायां संस्कृतम्ख्यम् “शूलोखाद् यः” ॥६।२।१४१॥ इति यः ॥ २ ॥
प्रयस्तं तु सुसंस्कृतम् ॥ ७५ ॥ परिव्ययपाकादिना प्रयत्नसाध्यं प्रयस्तम् , सुष्ठु संस्कृतम् ॥ १ ॥ ७५ ॥
पक्के राद्धं च सिद्धं च पच्यते स्म पक्वम् , तत्र ; उत्तरत्र 'विनाऽम्बुना' इति वचनादिहाऽम्बुनेति लभ्यते ॥ १ ॥ राध्यति स्म राद्धम् ॥ २ ॥ सिध्यति स्म सिद्धम् ॥ ३ ॥
भृष्टं पक्कं विनाऽम्बुना । भृज्ज्यते स्म भृष्टम् , जलेन विना पक्वम् ॥ १॥
भृष्टामिषं भटित्रं स्याद्भतिर्भरूटकं च तत् ॥ ७६ ॥ भृष्टं यदङ्गारेषु विपक्कं मांसं तत् ; भटत्यनेन भुटित्रम् “बन्धिवहि." ॥ (उणा-४५९) ॥ इतीत्रः ॥ १॥ भवति बलमनया भूतिः ॥ २॥ बिभर्ति बलं भरूटकम् “कीचकपेचक-"॥ (उणा-३३) ॥ इत्यके निपात्यते ॥ ३ ॥ ७६ ॥
शूल्यं शूलाकृतं मांसं . शूले संस्कृतं शूल्यम् “शूलोखाद् यः " ॥६।२।१४१॥ इति यः ॥ १॥ शूलाक्रियते स्म पाकाय शूलाकृतम् “शूलात् पाके" ॥॥२॥१४२॥ इति डाच् । भन्ये तु सामान्यविशेषभावं परिहत्य अनयोभटित्रेणैकार्थतामाहुः ॥ २ ॥
निष्क्वाथो रसकः समौ। निष्क्वाथो मांसस्य; प्रस्तावात् ॥ १॥ रसः पिष्टमांसजस्तत्तुल्यो रसकः ॥२॥
प्रणीतमुपसंपन्नं प्रणीयते स्म प्रणीतं रूपरसादिनिष्पन्नमन्नम् ॥१॥ उपसंपद्यते स्म उपसंपन्नम् ॥२॥
स्निग्धे मसृणचिक्कणे ॥ ७७ ॥ स्निह्यति स्म स्निग्धः, तत्र ॥ १ ॥ मस्यति मसृणं "भ्रूणतृण-" ॥ ( उणा१८६ ) ॥ इति णे निपात्यते ॥ २ ॥ चीयते चिक्कणं “चिक्कणकुक्कण-" ॥ ( उणा-१९० ) इति अणे निपात्यते, चिगिल्यव्यक्त कणति वा । कौशिकस्तु-चिक इत्यस्याणे चिकणमिच्छति ॥ ३ ॥ ७ ॥