SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ . ३ मर्यकाण्डः । १६९ दण्डाहते कालशेयघोलारिष्टानि गोरसः ॥ ७२ ॥ रसायनं मन्थदण्डेनाऽऽहतं दण्डाहतम् , तत्र ॥ १ ॥ कलश्यां मन्थन्यां भवं कालशेयं "दृतिकुक्षिकलशि." ॥६।३।१३०॥ इत्येयम् ॥ २॥ हन्यते मथा घोलं "पिञ्छोलकल्लोल-" ॥ (उणा-४९५) ॥ इत्योले निपात्यते ॥ ३ ॥ न रेषति हिनस्ति अरिष्टम् , सर्वरोगाजितत्वात् ॥ ४ ॥ गोर्धेन्वा रसो गोरसः ॥ ५ ॥ ७२ ॥ अम्लादीन् रसानयते रसायनम् ॥ ६ ॥ 'अथाऽर्धाम्बूदश्वित् अर्धमम्बु जलं यत्र अर्धाम्बु; उदकेन श्वयति उदश्वित् , क्लीबलिङ्गः "उदकाच्छ्वेर्डित्" ॥ (उणा-८८८) ॥ इति इत् , “नाम्युत्तरपदस्य च ॥३।२। १०७॥ इत्युदकस्योदः॥ १॥ श्वेतं समोदकम् । श्वेतते श्वेतम् , श्वेतरसमित्यपि; सममुदकं यत्र समोदकम् ॥ १॥ . तकं पुनः पादजलं तश्चति द्रुतं गच्छति तक्रं, पुंक्लीबलिङ्गः “ ऋज्यजि-" ॥(उणा-३८८)॥ इति किद् रः; पादेन तुर्याशेन जलं यत्र पादजलम् ॥ १॥ शेषश्चात्रतके कट्वरसारणे। अर्शोघ्नं परमरसः ॥ मथितं वारिवर्जितम् ॥ ७३ ॥ दधा मथनमात्रसाध्यं माथतम् ॥ १॥ ७३ ॥ सार्पिष्कं दाधिकं सर्पिर्दधिभ्यां संस्कृतं कमात् । सर्पिषा संस्कृतं सार्पिष्कम् , दना संस्कृतं दाधिकम् “संस्कृते" ॥६।४।३॥ .इतीकण् ॥ १ ॥१॥ लवणोदकाभ्यां दकलावणिकं उदकलवणाभ्यां संस्कृतं दकलावणिकं ,बाहुलकादुत्तरपदवृद्धिः ॥ १ ॥ उदाश्चिति ॥ ७४ ॥ औदश्वितमौदश्वित्कं .... उदश्विति संस्कृतं औदश्वितम् , औदश्वित्कं “वोदश्वितः” ॥ ६।२।१४४ ॥ इतीकण , पक्षेऽण् ॥ १ ॥ २ ॥ ७४ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy