SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ - १६८ अभिधानचिन्तामणौ- . ... किरति क्षुधं किलाटी, पुंस्त्रीलिङ्गः “किरो लश्च वा” ॥ (उणा-१४७) ॥ . इत्याटः ॥१॥ कूर्चस्तन्मस्तु तदस्त्यस्याः कूर्चिका, कूचति कूचिका इत्यके ॥१॥६९॥ ..... पायसं परमान्नं च क्षरेयी पयसि संस्कृतं पायसं, पुंक्लीबलिङ्गः "संस्कृते भक्ष्ये" ॥६।२।१४०॥ इत्यण ॥१॥ परमं च तदन्नं च परमान्नम् ॥ २ ॥ क्षीरे संस्कृता क्षैरेयी “क्षीरादयण" ॥६२।१४२॥ इत्येयम् ॥ ३ ॥ क्षीरजं दधि । गोरसश्च क्षीराजातं क्षीरजम् ॥ १ ॥ दधते बलिष्ठतां दधि, क्लीबलिङ्गः, “पदिपठि-" (उणा-६०७) इति इः ॥ २ ॥ ३॥ शेषश्चात्र दनि श्रीघनमङ्गल्ये ॥ तदघनं द्रप्सं पत्रलमित्यपि ॥ ७० ॥ : दृप्यतेऽनेन द्रप्स "मावा-" ॥ (उणा-५६४) ॥ इति बहुवचनात् सः, ततः "स्पृशादिसृपो वा'॥४।४।११२॥ इत्यकारागमः; द्रप्स्यमित्यपि ॥ १॥ पत्रं लाति पत्रलम् , पत्रमस्यास्तीति वा, सिध्मादित्वाद् लः ॥ २ ॥ ७० ॥ . घृतं हविष्यमाज्यं च हविराघारसर्पिषी । घरति घतं, पुंक्तीबलिङ्गः "शीरी-" ॥ (उणा-२०१) ॥ इत्यादिना तः कित् ॥१॥ हविषे हितं हविष्यम् "उवर्णयुगादेः” ॥७१।३०॥ इति यः ॥ २ ॥ आ अज्यतेऽनेन आज्यम् "कुप्याभिद्य-"॥५।१।३९॥ इति क्यापि निपात्यते ॥ ३ ॥ हूयते हविः, क्लीबलिङ्गः ॥ ४ ॥ आधारयति आघारः ॥ ५ ॥ सर्पति सर्पिः, क्लीबलिङ्गः “रुच्यर्चि-" ॥ (उणा-९४९) ॥ इति इस् ॥ ६॥ ह्योगोदोहोद्भवं हैयङ्गवीनं . ह्योगोदोहस्य विकारो हैयङ्गवीनं “ह्योगोदोहादीनञ् हियङ्गुश्चास्य” ॥६॥२॥ ५५॥ इति ईनञ् , प्रस्तावाद् घृतं लभ्यते । कात्यो नवनीतमित्याह ॥ १ ॥ शरजं पुनः ॥ ७१॥ दधिसारं तकसारं नवनीतं नवोद्धृतम् । - शराज्जातं शरजम् ॥ १॥ ७१ ॥ दनः सारं दधिसारम् ॥ २ ॥ तक्रस्य सारं तक्रसारम् ॥ ३ ॥ दनो मथिताद् नवं तत्कालं नीतमुद्धृतं च नवनीतम् , नवोद्धृतम् ॥ ४ ॥ ५॥. .
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy