SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ३ मर्यकाण्डः । १६७ क्रमेण गुणवत्तरा" इति तु वाग्भटः ॥ १॥ फाण्यते द्रवत्वात् फाणितं खण्डश्चोतः, पुंक्लीबलिङ्गोऽयम् , यद्वाचस्पतिः- “फाणितमस्त्रियाम्" ॥१॥ रसालायां तु मार्जिता ॥ ६७ ॥ शिखरिणी रसमलति रसाला, तत्र ॥१॥ मायते मार्जिता, मर्जिताऽपि ॥ २ ॥ ६७ ॥ शिखरमस्त्यस्यां शिखरिणी ॥ ३ ॥ .. अथ यूयूषो रसः ___ यौतीत्येवंशीलो यूः, पुंलिङ्गः, भ्राजादित्वात् क्विपि साधुः, यद् वैजयन्ती'"यूषोऽस्त्री यूः पुमान् रसे"॥ १ ॥ यूयते मिश्रीक्रियते यूषः, पुंक्लीबलिङ्गः “योरूब वा" ॥ (उगा-५४१) ॥ इति षः, यूषति हिनस्ति रुजं वा ॥ २॥ रस्यते रसो मुद्रादीनाम् ॥ ३ ॥ दुग्धं तु सोमजम् । गोरसः क्षीरमूधस्यं स्तन्यं पुंसवनं पयः ॥ ६८ ॥ दुयते दुग्धम् ॥ १॥ सोमरसाज्जातं सोमजम् ॥ २ ॥ गोर्धेन्वा रसो गोरसः ॥३ ॥ घस्यते क्षीरम् , पुंक्लीबलिङ्गः । “घसिवाश-" ॥ ( उणा-४१९) ॥ इति किदीरे, “गमहन-"॥४।२।४४॥ इत्युपान्त्यलोपे, च "घस्वसः" ॥२॥३॥३६॥ इति सस्य षस्वम् ॥ ४ ॥ ऊधसि भवमूधस्यम् ॥ ५ ॥ स्तने भवं स्तन्यम् , देहांशत्वाद् यः ॥ ६ ॥ पुंभिः सूयतेऽनेन पुंसवनम् ॥ ७ ॥ पीयते पयः “पाहाभ्यां पयह्यो च" ॥ (उणा--९५३) ॥ इत्यस् ॥ ८ ॥ ६८ ॥ शेषश्चात्र दुग्धे योग्य बालसात्म्यं जीवनीयं रसोत्तमम् । सरं गव्यं मधुज्येष्ठं धारोष्णं तु पयोऽमृतम् ॥ पयस्यं घृतदध्यादि .. पयसो विकारः पयस्यम् “ पयोद्रोर्यः" ॥ । २ । ३५ ॥ इति यः, आदिशब्दाप्रवनीतादि ॥१॥ पेयूषोऽभिनवं पयः । ___ पीयते पेयूषः " कोरदूषाटरूष-" ॥ ( उणा-५६१ ) ॥ इत्यूषान्तो निपास्यते । वैजयन्ती तु- “ आ सप्ताहात् तु पेयूषं ततो मोरटमोरके” इति क्लीबमाह । पीयूषमित्यपि, नवप्रसूतगवीक्षीरं कथितं सदभिनवम् ॥ १॥ . उभे क्षीरस्य विकृती किलाटी कूर्चिकाऽपि च ॥ ६९ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy