________________
अभिधानचिन्तामणौ
पृथुत्वात् पृथुकः आर्द्र भृष्टं सस्यम्, तद्धि पाकात् पृथुर्भवति, प्रथते वा "कचुकांशुक - " ॥ ( उणा - ५७ ) ॥ इत्युके निपात्यते ॥ १ ॥ चिपिटीभवनाच्चिपिटः, चिपिटक इत्यमरः ॥ २ ॥
१६६
लाजाः स्युः पुनरक्षताः ॥ ६५ ॥
लाज्यन्ते भृज्यन्ते लाजाः, पुंस्त्रीलिङ्गः, बहुवचनान्तश्च ॥ १ ॥ न क्षण्यन्ते भक्षताः, पुंक्लीबलिङ्गः, पुंस्ययं बहुवचनान्तः ॥ २ ॥। ६५ ।।
शेषश्चात्र
लाजेषु भरुजोद्भूषखटिका परिवारकाः ॥ गोधूमचूर्णे समिता
समीक्रियते समिता ॥ १ ॥ यवक्षोदे तु चिक्कसः ।
33
चीयते चिक्कसः, पुंक्लीबलिङ्गः “ फनसतामरसादयः ॥ ( उणा-५७३) ॥ इत्यसे निपात्यते, चिक्कस्यति वा । कौशिकस्तु चिक्क इति व्यसने पठस्तस्मादसमिच्छति ॥ १ ॥
गुड इक्षुरसकाथः
. गूयते कथ्यते गुडः, “कुगुहुनी - " ॥ ( उणा - १७० ) ॥ इति ङः कित्, गुडति रक्षति वा ॥ १ ॥
शर्करा तु सितोपला ॥ ६६ ॥
सिता च
शीर्यते शर्करा “किशॄत्रृभ्यः करः " ॥ ( उणा - ४३५) ॥ इति करः ॥ १ ॥ सितोपलः स्फटिकस्तत्सदृशत्वात् सितोपला ॥२॥ ६६॥ सीयते बध्यते सिता ॥३॥
मधुधूलिस्तु खण्ड:
मधुनः क्षौद्रस्य धूलिरिव मधुरत्वाद् मधुधूलिः ॥ १ ॥ खडुङ् मन्थे, खण्ड्यते खण्डः, पुंक्लीबलिङ्गः ॥ २ ॥
तद्विकृती पुनः । मत्स्यण्डी फाणितं चापि
तस्य खण्डस्य विकारः, मदं स्यन्दते मत्स्यण्डी सामान्यशर्करा, पृषोदरादित्वात् ; मत्स्यान् अमति रुजति मत्स्याण्डीति वैद्याः, यद् धन्वन्तरिः – “शर्करोक्ता तु मीनाण्डी श्वेता मत्स्याण्डिका सिता” इति । " मत्स्यण्डिका खण्डसिता