SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ . ३ मर्यकाण्डः । १६५ नितिष्ठति अन्नमनेन निष्ठान, पुंक्लीबलिङ्गः । यद्वाचस्पतिः-'तेमने तु निष्ठानोऽस्त्री, ॥ १ ॥ तिम्यत्यार्दीभवत्यनेन तेमनमुपसेचनं, कोपनाख्यम् ॥ २॥ करम्भो दधिसक्तवः ॥ ६३ ॥ करोति तृप्तिं करम्भः “ कृकलेरम्भः ” ॥ (उणा-३३६) ।। इत्यम्भः, केन रभ्यते मील्यते वा, दध्युपसिक्ताः सक्तवः ॥१॥ शेषश्चात्र--अथ करम्बो दधिसक्तुषु ।। ६३ ॥ .. घृतपूरो धृतवरः पिष्टपूरश्च घार्तिकः । घृतेन पूर्यते, घृतपूरः क्षीराढ्यः समितापिण्डो घृतेन शृतः ॥ १॥ घृतेन वरो घृतवरः ।। २ ।। पिष्टेन पूर्यते पिष्टपूरः ।।३॥ घृतेन संसृष्टो घार्तिकः, “संसृष्टे" ॥६।४।५।। इतीकण् ॥ ४ ॥ चमसी पिष्टवर्तिः स्याद् । .. चम्यते चमसी “ तप्यणि-"॥ ( उणा-५६९) ॥ इत्यसः। गौडस्तु 'चमसः पिष्टवर्तिः स्यात् ' इति पुंस्याह ॥ १॥ मुद्गादीनां पिष्टस्य वर्तिः पिष्टवर्तिः ॥२॥ वटकस्त्ववसेकिमः ॥ ६४ ॥ वट्यते वेष्ट्यते वटकः “ बहुलम् "॥५।१।२ ॥ इत्यकट ; यद्वा-वटति वटः, ततः खार्थे कः, पुंक्लीबलिङ्गः ॥ १ ॥ अवसेकेन निवृत्तो अवसेकिमः “भावादिमः" ॥ ६।४।२१ ॥ इतीमः, भक्ष्यविशेषः ॥ २ ॥ शेषश्चात्रईण्डेरिका तु वटिका शष्कुली त्वर्धलोटिका । पर्पटास्तु मर्मराला घृताण्डी तु घृतौषणी ॥ १॥ समिताखण्डाज्यकृतो मोदको लड्डुकश्च सः। एलामरिचादियुतः स पुनः सिंहकेसरः ॥ २ ॥ ६४ ॥ भृष्टा यवाः पुनर्धानाः धीयन्ते धानाः, स्त्रियां बहुवचनान्तोऽयम् , “प्याधा-"॥ (उणा-२५८)॥ इति नः ॥ १॥ धानाचूर्ण तु सक्तवः। - षचि सेचने, सच्यन्ते सक्तवः, पुंक्लीबलिङ्गः, एकवचनान्तोऽप्ययम् “कृसिकम्यमि-''॥ (उणा-७७३ ) ॥ इति तुन् ॥ १ ॥ पृथुकश्चिपटस्तुल्यौ
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy