SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ बुभुक्षा संजाताऽस्य बुभुक्षितः, तारकादित्वादितः ॥ १ ॥ क्षुध्यति क्षुधितः, क्षुत् संजाताऽस्य वा ॥ २ ॥ अत्तुमिच्छुः जिघत्सुः ॥ ३ ॥ अशनमिच्छति आत्मनइति अमाव्ययात्-” ॥३।४।२३॥ इति क्यनि “ क्षुत्तृड्गर्ध ॥४।३।११३॥ इत्यात्वम्, ततः क्तेऽशनायितः ॥ ४ ॥ ॥ ५६ ॥ बुभुक्षायामशनाया जिघत्सा रोचको रुचिः । भोक्तुमिच्छा बुभुक्षा, तस्याम् ॥ १ ॥ अशनेच्छा अशनाया ॥ २ ॥ अतुमिच्छा जिघत्सा " घस्लृ सनद्यतनी " || ४|४|१७ ॥ इति संन्यदेर्घसादेशः ॥ ३ ॥ रोचनम्, रोचतेऽस्मिन्निति वा रोचकः पुंक्लीबलिङ्गः " नाम्नि पुंसि च ॥ ५ | ३|१२१॥ इति णकः ॥ ४ ॥ एवं रुचिः, स्त्रीलिङ्गः “ नाम्युपान्त्य - " ॥ ( उणा - ६०९) ॥ इति कः ॥ ५ ॥ शेषश्चात्र - बुभुक्षायां क्षुधाक्षुधौ ॥ पिपासुस्तृषितस्तृष्णक् पातुमिच्छुः पिपासुः, पिपासितोऽपि ॥ १ ॥ तृष्यति तृषितः व्यनुबन्धत्वात् सति क्तः, तृट् संजाताऽस्य वा तर्षितोऽपि ॥ २ ॥ तृष्यतीत्येवंशीलः तृष्णक् " तृषिधृषि - " || ५|२|८० ॥ इति नजिङ् ॥ ३ ॥ १६२ 66 तृष्णा तर्षोऽपलासिका ॥ ५७ ॥ पिपासा तृट् तृषोदन्या धीतिः पाने तर्षण तृष्णा “ मृगयेच्छा- ” ॥ ५ । ३ । तर्षः ॥ २ ॥ अपकृष्टं लसत्यनया अपलासिका " १०१ ॥ इति नङ् ॥१॥ घनि नानं पुंसि च ॥५।३।१२१॥ इति णकः ॥ ३ ॥ ५७ ॥ पातुमिच्छा पिपासा ॥ ४ ॥ तर्षणं तृट्, तृषा ॥ ५ ॥ ६॥ उदकेच्छा उदन्या क्यनि “ क्षुत्तृड्गर्ध - " ||४|३|११३ ॥ इत्युदकस्योदन् ॥ ७ ॥ ट्वें पाने धयनं धीतिः ॥ ८ ॥ पीयते पानं, तत्र ॥ ९ ॥ अथ शोषणम् । रसादानं शुष्यते शोषणम् ॥ १ ॥ रसानामादानं रसादानम् ॥ २ ॥ भक्षकस्तु घस्मरोऽमर आशितः ॥ ५८ ॥ भक्षयति भक्षकः ॥ १ ॥ घसतीत्येवंशीलो घस्मरः, अत्ति अद्मरः स्यो - " |५|२|७३ ॥ इति मरक् ॥ २ ॥ ३ ॥ आ समन्तात् अश्नाति आशितः, आशिरोऽपि ॥ ४ ॥ ५८ ॥ ८८ सूघ भक्तमन्नं कुरमन्धो भिस्सा दीदिविरोदनः ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy