SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ याचकस्तु वनीपकः ॥ ५१॥ मार्गणोऽर्थी याचनकस्त°कः याचते याचकः ॥ १॥ वनुते याचते वनीपकः "कीचकपेचक-" ॥ (उणा३३)॥ इत्यादिशब्दादकान्तो निपात्यते ॥२॥५१॥ मार्गति मार्गणः ॥ ३ ॥ अर्थनशीलोऽर्थी, अर्थोऽस्यास्तीति वा " अर्थार्थान्ताद्भावात् ” ॥७॥२८॥ इतीन् ॥ ४ ॥ याचते याचनः खार्थे के याचनकः ॥ ५॥ चतते तर्कुकः "कञ्चुकांशुक-" ॥(उणा-५७)॥ इत्युकान्तो निपात्यते ॥६॥ अथार्थनैषणा। अर्दना प्रणयो याच्या याचनाध्येषणा सनिः ॥ ५२॥ अर्थनमर्थना ॥ १ ॥ एषणमेषणा “इषोऽनिच्छायाम्" ॥ ५।३।११२॥ इत्यनः ॥ २ ॥ अर्दनमर्दना ॥ ३ ॥ प्रणयनं प्रणयः ॥ ४ ॥ याचनं याच्या “ मृगयेच्छायाच्ञा-" ॥५॥३।१०१॥ इति साधुः ॥५॥ याचेः खार्थण्यन्तस्याउने याचना ॥ ६ ॥ अध्येषणमध्येषणा " पर्यधेर्वा" ॥ ५।३।११३ ॥ इत्यनः ॥ ७ ॥ सन्यते सनिः “ पदिपठि-" ॥ (उणा-६०७)॥ इति इः, स्त्रीलिङ्गोऽयं, पुंस्यपि वैजयन्ती, यदाह-'भिक्षा च सनिरक्ली स्यात् ' इति । 'सनिस्त्वध्येषणा' इति गुर्वादेः क्वचिदर्थे प्रार्थनया नियोजनमित्यमरः पृथगाह ॥ ८ ॥५२॥ शेषश्चात्रयाच्या तु भिक्षणा । अभिषस्तिर्मार्गणा च ॥ उत्पतिष्णुस्तूत्पतिता उत्पतति ऊर्ध्व गच्छतीत्येवंशील उत्पतिष्णुः " उदः पचिपतिपदिमदेः" ॥ ५।२।२९ ॥ इतीष्णुः ॥ १॥२॥ अलङ्करिष्णुस्तु मण्डनः। अलंकरोतीत्येवंशीलोऽलकरिष्णुः " भाज्यलकृग्-" ॥५।२।२८॥ इतीष्णुः ॥१॥ मण्डयति तच्छीलो मण्डनः “ भूषाकोधार्थ-" ॥५॥२॥४२॥ इत्यनः ॥२॥ भविष्णुर्भविता भूष्णुः भवतीत्येवंशीलो भविष्णुः, इष्णुः ॥ १ ॥ भवतीति भविता ॥ १॥ भवतीसेवंशीलो भूष्णु: “ भूजेः ष्णुक्” ॥५॥२॥३०॥ इति ध्णुक् ॥ ३ ॥ समौ वर्तिष्णुवर्तनौ ॥ ५३ ॥ इष्णुः ॥ १ ॥ “ इङितः-" ॥ ५।२।४४ ॥ इत्यनश्च ।। २ ।। ५३ ॥ विसृत्वरो विस्मरः प्रसारी च विसारिणि ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy