SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ -३ मर्त्यकाण्डः ।। १५९ दक्षते शीघ्रं करोति दक्षः ॥ १॥ पिंशत्येकदेशेन सर्व करोति पेशल: "मृदिकन्दि-" ॥ ( उणा-४६५ ) इत्यलः ॥ २॥ पटति पटुः ॥ ३ ॥ ओषति दहतीति उष्णः “घृवीह्ना-" ॥ (उणा-१८३ ) ॥ इति णक् ॥ ४ ॥ उष्णं क्षिप्रं करोति इत्युष्णकः “शीताच्च कारिणि "॥७१।१८६॥ इति कः ॥ ५ ॥ सुष्ठ उत्थानमुद्योगोऽस्य सूत्थानः ॥ ६ ॥ चतते कर्म चतुरः ॥ ७॥ अथ तत्परः ॥ ४८॥ आसक्तः प्रवणः प्रहः प्रसितश्च परायणः । । तत्परमस्य तत्परस्तनिष्ठः ॥१॥४८॥ आसजति स्म आसक्तः॥ २ ॥ प्रकर्षण वनति संभजते प्रवणः ॥ ३ ॥ प्रह्वयते कार्ये स्पर्धते प्रह्वः “ उपसर्गादातो डोऽश्यः" ॥५।१।५६ ॥ इति डः ॥ ४ ॥ प्रसिनोति स्म प्रसितः ॥५॥ परं कार्य पारमयते परायणः ॥ ६॥ दातोदारः ददाति दाता ॥ १ ॥ उदर्यते उदारः ॥ २ ॥ स्थूललक्षदानशौण्डी बहुप्रदे ॥ ४९ ॥ स्थूलं लक्षयति आलोचयति ददाति इति यावत् स्थूललक्षः ॥ १॥ दाने प्रसक्तः शौण्ड इव दानशाण्डः ॥ २ ॥ बहु प्रदत्ते बहुप्रदः, तत्र ॥ ३ ॥ ४९ ॥ दानमुत्सर्जनं त्यागः प्रदेशनविसर्जने । विहायितं वितरणं स्पर्शनं प्रतिपादनम् ॥ ५० ॥ विश्राणनं निर्वपणमपवर्जनमंहतिः । दीयते दानम् ॥ १॥ उत्सृज्यते उत्सर्जनम् ॥ ॥ २ ॥ त्यजनं त्यागः ॥३॥ प्रदिश्यते प्रदेशनम् , प्रादेशनमपि ॥ ४ ॥ विसृज्यते विसर्जनम् ॥ ५ ॥ हिनोतेय॑न्तस्य. ते विहायितम् ॥ ६॥ वितीर्यते वितरणम् ॥ ७॥ स्पृश्यते . स्पर्शनं दानमुपचारात्, पुच्छादौ गवादिकं स्टष्ट्वा हि दीयते ॥ ८ ॥ प्रतिपाद्यते प्रतिपादनम् ॥९॥५०॥ विश्राण्यते विश्राणनम् ॥१०॥ निरुप्यते निर्वपणम् , निर्वापणमपि ॥ ११ ॥ अपवृज्यतेऽपवर्जनम् ॥१२॥ हन्यते दौर्गत्यमनया अंहतिः, स्त्रीलिगः "हन्तरंह च" ॥ ( उणा-६५४) ॥ इत्यतिः; स्वतः, उपसर्गवशाचैते दानार्थाः ॥ १३॥ अर्थव्ययज्ञः सुकलः अर्थव्ययं जानाति अर्थव्ययज्ञो दाता भोक्ता च, शोभना कलाऽस्य सुकलः ॥१॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy