________________
अभिधानचिन्तामणौ--
स्याद्गोमुखो महायक्षस्त्रिमुखो यक्षनायकः ।। ४१ ।। तुम्बुरुः कुसुमश्चापि मातङ्गो विजयोऽजितः । ब्रह्मा यक्षेट् कुमारः षण्मुखपातालकिन्नराः ॥ ४२ ॥ गरुडो गन्धर्वो यक्षेट् कुबेरो वरुणोऽपि च ।
भृकुटिगोमेधः पार्थो मातङ्गोऽर्हदुपासकाः ॥ ४३ ॥ गौरिव मुखमस्य गोमुखः ॥ १॥ महांश्चासौ यक्षश्च महायक्षः ॥ २ ॥ त्रीणि मुखान्यस्य त्रिमुखः ॥ ३ ॥ यक्षाणां नायको यक्षनायकः ॥ ४ ॥ ४१ ॥ तुम्बति अर्दति विघ्नान् तुम्बुरुः “तुम्बेरुरुः" ।। (उणा-८१७) ॥ इत्युरुः ॥ ५॥ कुस्यति युज्यते पद्मप्रभोपासनाय कुसुमः " उद्वटिकुल्यलि-" ॥ (उणा-३५१) ।। इति कुम: ॥ ६॥ मातङ्ग इव महाबलत्वाद् मातङ्गः ॥ ७ ॥ विजयते विजयः ॥ ८॥ न जीयते स्म अजितः ॥ ९ ॥ बृंहति वर्धते प्रभावोऽस्मिन्निति ब्रह्मा ॥ १० ॥ यक्षाणामीशो यक्षेट् ॥ ११॥ कुमारयति क्रीडति कुमारः ॥ १२ ॥ षण्मुखान्यस्य षण्मुखः ॥ १३ ॥ पातं रक्षितमालमनर्थोऽनेनं पातालः ॥ १४ ॥ किश्चिन्नरः किन्नरः ॥ १५ ॥ ४२ ॥ गरुड इव गरुडः प्रचण्डत्वाद् ॥ १६ ॥ गन्धयते अर्दयति विघ्नान् गन्धर्वः ॥ १७ ॥ यक्षाणामीशो यक्षेट् ॥ १८॥ कुत्सितं बेर शरीरमस्य
कुबेरः ॥ १९॥ वृणोति वाञ्छितमसौ वरुणः ॥ २० ॥ भृकुटिभीषणत्वाद् भृकुटि: ५ ॥ २१ ॥ गां मैधते पवित्रीकरोति गोमेधः ३२ ॥ श्रीपार्श्वजिनस्य सदा पादौ
स्पृशति पार्श्वः सदा तत्पार्श्ववर्तित्वाद्वा ॥ २३ ॥ मातङ्ग इव महाबलत्वात् मातङ्गः ॥२४॥ एते चतुर्विशतिरपि यक्षाः क्रमेण अर्हतां ऋषभादीनां उपासका: ॥ ४३ ॥
चक्रेश्वर्यजितबला दुरितारिश्च कालिका । महाकाली श्यामा शान्ता भृकुटिश्च सुतारका ॥४४॥ अशोका मानवी चण्डा विदिता चाङ्कुशा तथा । कन्दर्पा निर्वाणी बला धारिणी धरणप्रिया ॥ ४५ ॥ नरदत्ताथ गान्धाम्बिका पद्मावती तथा ।
सिद्धायिका चेति जैन्यः क्रमाच्छासनदेवताः॥४६॥ चक्रस्य ईश्वरी चक्रेश्वरी अप्रतिचक्रेत्यपि ॥ १ ॥ बलेन न जिता इति अजितबला राजदन्तादित्वात् पूर्वनिपातः। अजितेत्यपि भीमसेनवत् ॥ २ ॥ दुरितानामरिः दुरितारिः ॥ ३ ॥ काल्येव कालिका वर्णेन ॥ ४ ॥ महती चासौ काली