________________
१ देवाधिदेवकाण्डः |
- नन्दा विष्णुर्जया श्यामा सुयशाः सुत्रताऽचिरा । श्रीदेवी प्रभावती च पद्मा वप्रा शिवा तथा ॥ ४० ॥ बामा त्रिशला क्रमतः पितरो मातरोऽर्हताम् ।
१५
नह्यति अन्यायिनो हाकारादिभिर्नीतिभिरिति नाभिरन्त्यः कुलकरः । “नहेर्भ च" ॥ (उणा - ६२१) ॥ इति णिः ॥ १ ॥ जिताः शत्रवोऽनेन जितशत्रुः ॥ २॥ जिताः अरयोऽनेन जितारिः ॥ ३ ॥ संवृणोतीन्द्रियाणि संवरः ॥ ४ ॥ सकलसत्त्वसन्तापहरणात् मेघ इव मेघः ॥ ५ ॥ धरति धात्रीं इति धरः ॥ ६ ॥ प्रतिष्ठते धर्मकार्ये प्रतिष्ठः ॥ ७ ॥ महापूज्या सेनाऽस्य महासेनः स चासौ नरेश्वरश्च महासेननरेश्वरः ॥ ८ ॥ ३६ ॥ शोभना प्रीवाऽस्य सुग्रीवः ॥ ९ ॥ दृढो रथोऽस्य दृढरथः ॥ १० ॥ वेवेष्टि बलैः पृथ्वीं विष्णुः ॥ ११ ॥ अन्यै राजभिर्वसुभिः धनैः पूज्यते इति वसुपूज्यः स चासौ राट् च वसुपूज्यराद् ॥ १२ ॥ कृतं वर्माऽनेन कृतवर्मा ॥ १३ ॥ सिंहवत् पराक्रमवती सेनाऽस्य सिंहसेनः ॥ १४ ॥ भाति त्रिवर्गेण भानुः ॥ १५ ॥ विश्वव्यापिनी सेनाऽस्य विश्वसेनः स चासौ राट् च विश्वसेनराद् ॥ १६ ॥ ३७ ॥ तेजसा सूर इव सूरः ॥ १७ ॥ शोभनं दर्शनमस्य सुदर्शनः ॥ १८ ॥ गुणपयसामाधारभूतत्वात् कुम्भ इव कुम्भः ॥ १९ ॥ शोभनानि मित्राणि अस्य सुमित्रः ॥ २० ॥ विजयते शत्रूनिति विजयः ॥ २१ ॥ गाम्भीर्येण समुद्रस्यापि विजेता समुद्र विजय ॥ २२ ॥ अश्वप्रधाना सेनाऽस्य अश्वसेनः ॥ २३ ॥ सिद्धा अर्थाः पुरुषार्था अस्य सिद्धार्थः ॥२४॥ इति ऋषभादीनां तीर्थकराणां क्रमेण चतुर्विंशतिः पितर इति ॥ ३८ ॥ मरुद्भिर्दीव्यते स्तूयते मरुदेवा पृषोदरादित्वात् तलोपः । मरुदेव्यपि ॥ १ ॥ विजयते विजया ॥ २ ॥ सह इनेन जितारिखामिना वर्तते सेना || ३ || सिद्धोऽर्थोऽस्याः सिद्धार्थ ॥ ॥ मङ्गलहेतुत्वात् मङ्गला ॥ ५ ॥ शोभना सीमा मर्यादा अस्याः सीमा ॥ ६ ॥ थेना पृथ्वी इव पृथ्वी ॥ ७ ॥ लक्ष्मीः शोभनाऽस्त्यस्याः लक्ष्मणा
॥ ८ ॥ धर्मकृत्येषु रमते रामा ॥ ९ ॥ ३९ ॥ नन्दति सुपुत्रेण नन्दा ॥ १० ॥ वेवेष्टि गुणैर्जगदिति विष्णुः ॥ ११ ॥ जयति सतीत्वेन जया || १२ || श्यामवर्णत्वात् श्यामा ॥ १३ ॥ शोभनं यशोऽस्याः सुयशाः ॥ १४ ॥ शोभनं व्रतमस्याः सुव्रता ॥ १५ ॥ पतिव्रतात्वात् न चिरयति धर्मकार्येषु अचिरा ॥ १६ ॥ श्रीवि श्रीः ॥ १७ ॥ देवीव देवी ॥ १८ ॥ प्रभाऽस्त्यस्याः प्रभावती ॥ १९ ॥ पद्मेव पद्मा ॥ २० || वपति धर्मबीजमिति वप्रा । “भीवृधि " ॥ ( उणा - ३८७ ) ॥ इति रः ॥२१॥ शिवहेतुत्वात् शिवा ॥ २२ ॥ ४० ॥ मनोज्ञत्वाद् वामा पापकार्येषु प्रातिकूल्या - द्वा वामा ॥ २३ ॥ त्रीणि ज्ञानदर्शनचारित्राणि शलति प्राप्नोति त्रिशला लिहादित्वादच् ॥ २४ ॥ इति क्रमेण ऋषभादीनां अर्हतां चतुर्विंशतिर्मातर इति ।