SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ - ३ मयंकाण्डः। १५७ बञ्च्यते वञ्चनम् ॥ १॥ प्रतार्यते प्रतारणम् ॥२॥ विशिष्टमलीकमत्र पलीकम् ॥ ३ ॥ अति संधीयतेऽतिसंधानम् ॥ ४ ॥ साधौ सभ्यायसन्जनाः ॥ १३ ॥ साधयति कार्याणीति साधुः “कृवापाजि-" ॥ ( उणा-१) ॥ इति उण, तत्र ॥१॥ सभायां साधुः सभ्यः ॥२॥ अर्यतेऽभिगम्यते आर्यः ॥ ३ ॥ सत् शोभनं जनयति सज्जनः, संश्वासौ जनश्चेति वा सज्जनः ॥ ४ ॥ ४३ ॥ . दोषैकदृक् पुरोभागी दोषे एव एकस्मिन् दृग् ज्ञानं यस्य स दोषैकदृक् । यत्कात्यः-दोषैकग्राहिहृदयः पुरोभागीति कथ्यते ॥१॥ पुरोऽप्रं सर्पवद् भजतीत्येवंशीलः पुरोभागी "युजभुजभज-"॥ ५ । २ । ५० ॥ इति घिनण् ॥ २॥ कर्णेजपस्तु दुर्जनः। पिशुनः सूचको नीचो द्विजिह्वो मत्सरी खलः ॥ ४४ ॥ कर्णे जपति सूचयति कर्णेजपः “शोकापनुदतुन्दपरिमृज-"॥५।१।१४३॥ इति के निपात्यते ॥ १॥ दुष्टो जनो दुष्टं जनयति वा दुर्जनः ॥ २ ॥ पिंशति एकदेशेन सूचयति पिशुनः “पिशिमिथिक्षुधिभ्यः कित्" ॥ (उणा-२९०) ॥ इत्युनः, पिशुनयतीति वा, अपिशुनति वा पृषोदरादित्वात् , अपिश्यति खण्डयतीति भोजः ॥ ३ ॥ सूचयतीति सूचकः ॥ ४ ॥ निकृष्टमश्चति नीचः “न्युद्भयामञ्चेः-" ॥ ( उणा-१००३)॥ इति के टावद्भावे च “अच्च् प्राग्दीर्घश्च" ॥२॥ १।१०४ ॥ इति साधुः ॥ ५॥ द्वे जिह्वे वचने अस्य द्विजिह्वः ॥ ६ ॥ मत्सरोऽस्त्यस्य मत्सरी ॥७॥ खनति साधुहृदयं खलः पुंक्लीबलिङ्गः, आश्रयलिङ्गइत्यन्ये "मृजिखन्याहनिभ्यो डित्" ॥ ( उणां-४७२ )॥ इत्यलः, खलति संचिनोति पापम् , खलति गुणेभ्य इति वा, खं शून्यं लातीति वा ॥ ८॥ शेषश्चात्र-अथ क्षुद्रप्रखलौ खले ॥ ४४ ॥ व्यसनाचस्तूपरक्तः । म्यसति श्रेयोमार्गाद् व्यसनं तेन ऋतः व्यसनातः “ ऋते तृतीयासमासे " ॥१॥२॥ ८ ॥ इत्यार् ॥ १॥ उपरज्यते स्म उपरक्तः ॥ २॥ चोरस्तु प्रतिरोधकः। दस्युः पाटच्चरः स्तेनस्तस्करः पारिपन्थिकः ॥ ४५ ॥ परिमोषिपरास्कन्धैकागारिकमलिम्लुचाः। चोरयति चोरः, प्रज्ञाद्यणि चौरोऽपि ॥ १ ॥ प्रतिरुणद्धि प्रतिरोधकः ॥ २॥ २१
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy