________________
• १५६
अभिधानचिन्तामणौ
वश्चयते वञ्चकः ॥ २ ॥ ४० ॥ व्यसयति च्छलयति व्यसकः, विगतावंसौ यस्य . व्यंसः, तत्तुल्यो वा ॥ ३ ॥ कुहयते विस्मापयते कुहकः, कुहकमिन्द्रजालं वा यस्यास्ति ॥ ४ ॥ दण्डश्च अजिनं च दम्भोपलक्षणत्वाद् दण्डाजिनं दम्भः, तेन अन्वेष्टा “ दाण्डाजिनिका- " ॥ ७।१।१७१ ॥ इत्यादिना निपात्यते ॥ ५ ॥ मायाऽस्ति अस्य मायी, व्रीह्यादित्वात् इन् , मायाविमायिकावपि ॥ ६ ॥ जालेन चरति जालिकः ।। ७ ॥
माया तु शठता शाठ्यं कुमृतिनिकृतिश्च सा॥ ४१ ॥ माति अनया माया " स्थाछामासा-" ॥ ( उणा--३५७ ) इति यः ॥ १ ॥ शठस्य भावः शठता शाठ्यम् ॥२॥३॥ कुत्सिता सृतिहिंसाथै कुसृतिः ॥ ४ ॥ नृकृष्टा कृतिः निकृतिः ॥ ५ ॥ ४१ ॥
कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् ।
व्यपदेशो मिषं लक्षं निभं व्याजः कम्पयत्यनेन कपटं पुंक्लीबलिङ्गः “कपटकीकटादयः” ॥ ( उणा--१४४ ) ॥ इति साधुः, के मूर्ध्नि पटमिवाच्छादकमिति वा ॥ १ ॥ कितवस्य कर्म कैतवं, युवा. दित्वादण् ॥ २ ॥ दम्भनं दम्भः ॥ ३ ॥ कूटयति दहति अनेन कूटं पुंक्लीबलिङ्गः ॥ ४ ॥ छाद्यते रूपमनेन छद्म “ छदेरिस्मन्त्रटक्कौ ” ॥ ४ । २ । ३३ ॥ इति मनि ह्रखः ॥ ५ ॥ उपधीयते स्फटिकस्येव सिन्दूरमुपधिः, उपधा अपि ॥६॥ छयति छिनत्त्यनेन छलम् “ छोर्डग् गादिवा" ॥ ( उणा--४७१ ) ॥ इति किदलः ॥ ७ ॥ व्यपदिश्यते व्यपदेशोऽतद्रूपस्य ताद्रूप्यम् ॥ ८ ॥ क्रीडाथै वञ्चनेन यद् मिषति मिषम् ॥ ९॥ स इव लक्ष्यतेऽनेन लक्षं पुंक्लीबलिङ्गः ॥ १० ॥ नितरां तदिव भाति निभम् ॥ ११ ॥ व्यजन्ति विक्षिपन्त्यनेन व्याजः स्वरूपाच्छादनम् , यल्लक्ष्यम्-- "ध्यानव्याजमुपेत्य चेतयसि किम्” ॥ १२॥ मायादयः कपटादयश्च एकार्था इत्येके, कपटादयो व्यपदेशादयश्च भिन्नार्था इत्यमरः ॥
अथ कुक्कुटिः ॥ ४२ ॥
कुहना दम्भचर्या च __ कुक्कुट इव आचरति कुक्कुटति दम्भेन निभृतं चरति, कुक्कुटनं कुक्कुटिः "खरेभ्य इ:" ॥ (उणा--६०६) ॥१॥४२॥ कुहयतेऽनया कुहना, दम्भेन परविस्मापनार्थ मिथ्याकल्पना ॥ २ ॥ दम्भेन चरणं " समजनिपद् ॥ ५।३।९९ ॥ इति क्यप् ॥ ३ ॥
वञ्चनं तु प्रतारणम् । व्यलीकमतिसन्धान