SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ३ मकाण्डः । वैदेहिकम्, अध्यात्मादित्वादिकण्, एकदेशविकृतत्वादूर्ध्वदेहिकम्, अनुशतिकादिपाठमताश्रयणे तु उभयपदवृद्धौ और्ध्वदेहिकमपि ॥ १ ॥ ३८ ॥ १५५ मृतस्नानमपस्नानं मृते स्नानं मृतस्नानम्, अपकृष्टं स्नानमपस्नानम् ॥ १ ॥ निवापः पितृतर्पणम् । नितरामुप्यते दीयते निवापः, पितॄणां तर्पणम् पितृतर्पणम् ॥ १ ॥ चितिचित्याचितास्तुल्या चीयते चितिः ॥ १ ॥ चितैव चित्या, मर्तादित्वाद् यः ॥ २ ॥ चीयते चिता ॥ ३ ॥ एते प्रेतदाहार्थे अग्न्याधाने वर्तन्ते ॥ ऋजुस्तु प्राञ्जलोऽञ्जसः T: 11| 39 || अर्ज्यते ऋजुः “ अर्जेर्ऋज् च " ( उणा - ७२२ ) ॥ इति उः ॥ १ ॥ प्राञ्जलयति अञ्जलिं प्रबध्नाति प्राञ्जलः, प्राज्यते अभिगम्यते इति वा ॥ २ ॥ अजोऽस्त्यस्य अञ्जसः ॥ ३ ॥ ३९ ॥ दक्षिणे सरलोदारौ दक्षते दक्षिण: "दुहिदक्षिभ्य इणः" || ( उणा - १९४ ) ॥ इति इणः, तत्र ॥ १ ॥ सरति सरलः " मृदिकन्दि - " ॥ ( उणा - ४६५ ) इत्यलः ॥ २ ॥ उदर्यते उदारः ॥ ३ ॥ शठस्तु निकृतोऽनृजुः । शठ कैतवे च शठति शठः, शाम्यतीति वा “शमेर्लुक् च वा" ।। ( उणा१६५ ) ॥ इति ठः, एकदेशविकृतत्वात् शण्ठोऽपि ॥ १ ॥ निकृणोति हिनस्ति निकृतः ॥ २ ॥ न ऋजुः अनृजुः ॥ ३ ॥ क्रूरे नृशंसनिस्त्रिंशपापाः "( कृतेः क्रूकृच्छ्रौ च”॥ ( उणा-३९५ ) ॥ इति रः, तत्र निस्त्रिंश इव घातुकत्वाद् निस्त्रिंशः कृन्ततीति क्रूरः ॥ ॥ १ ॥ नृन् शंसति हिनस्ति नृशंसः ॥ २ ।। ३ ।। पापमस्यास्ति पापः ॥ ४ ॥ धूर्तस्तु वञ्चकः ॥ ४० ॥ व्यंसकः कुहको दाण्डाजिनिको मायिजालिकौ । धूर्बति हिनस्ति धूर्तः " शीरी - " ॥ ( उणा - २०१ ) इति तः कित् ॥ १ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy