________________
अभिधानचिन्तामणौ-.. महेच्छे तूद्भटोदारोदात्तोदीर्णमहाशयाः ।
महामना महात्मा च महती इच्छा अस्य महेच्छस्तत्र ॥ १॥ उद्भटति उद्धरत्युद्भटः ॥ २ ॥ साधुभिरुदर्यते गम्यते उदारः ॥ ३ ॥ उत्कर्षेणादीयते गम्यते उदात्तः ॥ ४ ॥ उदीयते स्म उदीर्णः ॥ ५॥ महानाशयोऽस्य महाशयः ॥ ६ ॥ महद् मनोऽस्य महामनाः ॥ ७ ॥ महान् आत्माऽस्य महात्मा ॥ ८ ॥
कृपणस्तु मितम्पचः ॥ ३१ ॥ कीनाशस्तद्धनः क्षुद्रकदर्यदृढमुष्टयः ।
किम्पचानः कल्पते कृपणः " कृगप्रकृपि-" ॥ ( उणा-१८८) ॥ इति अणक् ॥ १ ॥ मितं पचति मितपचः “ परिमाणार्थमितनखात् पचः" ॥ ५। १ । १०९ ॥ इति खः ॥२॥३१॥ कनति दीप्यते तृष्णया कीनाशः “कनेरीश्चातः" ।( उणा-५३४ ) ॥ इत्याशः ॥ ३ ॥ तदेव धनमस्य तद्धनः ॥ ४ ॥ क्षुद्यतेऽल्पत्वात् क्षुद्रः "ऋज्यजि-" ॥ ( उणा-३८८ ) ॥ इति रक् ॥ ५ ॥ कुत्सितोऽर्यः खामी कदर्यः ॥ ६ ॥ दृढा मुष्टिरस्य दृढमुष्टिः ॥ ७ ॥ किञ्चित् पचति किम्पचानः “मुमुचान-" ॥ ( उणा-२७८ ) ॥ इति बहुवचनादानान्तो निपात्यते ॥ ८ ॥ ..
दयालुस्तु कृपालुः करुणापरः ॥ ३२ ॥
सूरतः दयत इत्येवंशीलो दयालु: "शीशद्धानिद्रा-" ॥ ५। २ । ३७ ॥ इत्यालुः ॥१॥ कृपाऽस्त्यस्य कृपालुः “कृपाहृदयादालुः" ॥ ७ । २ । ४२ ॥ इत्यालुः ॥२॥ करुणायां परः करुणापरः॥३॥३२॥ सुष्टु रमते कृपायां सूरतः "पुतपित्त-" ॥ ( उणा-२०४) ॥ इति तान्तो निपात्यते ॥ ४ ॥
अथ दया शूकः कारुण्यं करुणा घृणा।
कृपाऽनुकम्पाऽनुक्रोशः
दयन्तेऽनया दया, भिदादित्वादङ् ॥ १ ॥ शवन्ति गच्छन्ति परदुःखप्रहाणेच्छामनेन शूकः पुंक्लीबलिङ्गः “ घुयुहिपितुशोर्दीर्घश्च” ॥ ( उणा-२४ ) ॥ इति कः ॥ २ ॥ करुणस्य भावः कारुण्यम् , करुणैव वा भेषजादित्वात् स्वार्थे ट्यण ॥३॥ किरति चित्तं करुणा “ऋकृवृ." ॥ ( उणा-१९६) ॥ इत्युणः ॥ ४ ॥ घ्रियन्तेऽनया घृणा; घृण्यन्तेऽनयेति वा ॥ ५ ॥ कृपणं कृपा “ मृगयेच्छा.''॥५।३।१०१॥