________________
१४८
अभिधानचिन्तामणौ- . .
तन्त्रायत्तवशाधीनच्छन्दवन्तः परात् परे ॥ २० ॥ ___ नाथो नियन्ताऽस्त्यस्य नाथवान् ॥ १॥ निहन्यते निघ्नः स्थादित्वात् के " हनो ह्रो नः ” ॥ २।१।११२॥ इति नादेशः ॥ २ ॥ गृह्यते गृह्यः “ पदास्वैरिबाह्यापक्ष्ये ग्रहः " ॥५।१।४४॥ इति क्यप् स्वार्थे के गृह्यकः ।।३।। परशब्दात् परे तन्त्रादयः तेन परस्य तन्त्रं आयत्तः परतन्त्रः, परस्यायत्तः परायत्तः, परस्य वशः परवशः, परस्याधीनः पराधीनः, परस्य च्छन्दोऽस्य परच्छन्दः, परो नियन्ताऽस्त्यस्य परवान् ॥ ४॥५॥ ६ ॥ ७ ॥ ८॥ ९ ॥ २० ॥ शेषश्चात्र-परतन्त्रे वशायत्तावधीनोऽपि।
लक्ष्मीवान् लक्ष्मणः श्लीलः लक्ष्मीरस्त्यस्य लक्ष्मीवान् , लक्ष्मणः “ लक्ष्म्या अनः " ॥ ७।२।३२ ॥ इ. त्यनः ॥ १॥ २॥ श्रियं लाति श्लीलः, श्रीरस्यास्तीति वा सिध्मादित्वाद् लः, ऋफिडादित्वाद् रस्य लत्वम् , श्रीमान् इत्यपि ॥ ३ ॥
इभ्य आढ्यो धनीश्वरः ।
ऋद्धे इभमर्हति इभ्यः “ दण्डादेर्यः” ॥ ६।४।१७८ ॥ इति यः ॥ १॥ अध्यायन्ति तामेति आढ्यः, पृषोदरादित्वात् ; आढौकत इति वा “ शिक्यास्याढ्य-" ॥ ( उणा--३६४ ) ॥ इति यान्तो निपात्यते ॥ २ ॥ धनमस्यास्तीति धनी, अतिशायने इन् ॥ ३ ॥ ईष्ट इत्येवंशीलः ईश्वरः ।। ४ ।। ऋध्यति स्म ऋद्धः समृद्धः तत्र ।। ५॥
विभूतिः संपत्तिलक्ष्मीः श्रीऋद्धिसंपदः ॥ २१ ॥ विभवनं विभूतिः ॥ १॥ संपदनं संपत्तिः ॥ २ ॥ लक्ष्यते लक्ष्मीः ॥ ३ ॥ श्रयणशीला श्रीः ॥ ४ ॥ अर्धनं ऋद्धिः ॥ ५ ।। संपदनं संपत् ॥ ६ ॥२१॥
दरिद्रो दुर्विधो दुःस्थो दुर्गतो निःस्वकीकटौ ।
अकिञ्चनः दरिद्राति दरिद्रः ॥१॥ दुष्टा विधा प्रकारो भोजनं वा अस्य दुर्विधः ॥ २ ॥ दुःखेन तिष्ठति दुःस्थः ॥ ३ ॥ दुःखन गच्छति दुर्गतः ॥ ४ ॥ निर्गतं स्वमस्य निःस्वः ॥ ५ ॥ ककते कीकट: “ कपटकीकटादयः " ॥ ( उणा--१४४ ) ॥ इति साधुः ॥ ६ ॥ नास्ति किञ्चनाऽस्य अकिञ्चनः ॥ ७ ॥
शेषश्चात्र-अथ दुर्गते। क्षुद्रो दीनश्च नीचश्च ।।