SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः । क्रियावान् कर्मसूद्यतः ॥ १७ ॥ क्रियाऽस्त्यस्य क्रियावान् नित्ययोगे मतुः ॥ १ ॥ १७॥ १४७ कर्मक्षमोऽलङ्कमणः कर्मणि क्षमः शक्तः कर्मक्षमः अलं कर्मणे अलङ्कर्माणः " अषडक्षाशितंग्वलङ्क - मलंपुरुषादीनः ” ॥ ७|१|१०६ ॥ इतीनः ॥ १ ॥ कर्मशूरस्तु कर्मठः । कर्मणि शूरः कर्मशूरः ॥ १ ॥ कर्मणि घटते कर्मठः " तत्र घटते कर्मणष्टः " ॥ ७।१।१३७ ॥ इति ठः ॥ २ ॥ कर्मशीलः कार्मः कर्मशीलमस्य कर्मशीलः ॥ १ ॥ कार्मः “ अंथाच्छत्रादेरञ् " ॥ ६।४१६० ॥ इत्यञ् ॥ २ ॥ आयःशूलिकस्तीक्ष्णकर्मकृत् ॥ १८ ॥ 66 तीक्ष्ण उपायोऽयः शूलसाम्यादयः शूलं तेन अन्वेष्टा आयः शूलिकः, यो मृदुनोपायेनाऽन्वेष्टव्यानर्थास्तीक्ष्णोपायेनान्विच्छति रामसिकः स एवमुच्यते दाण्डाजिनिकायःशूलिकपार्श्वकम् " ॥ ७।१।१७१ ॥ इति निपात्यते ॥ १ ॥ १८ ॥ सिंहसंहनन: खङ्गः सिंहस्येव संहननं देहोऽस्य सिंहसंहननः ॥ १ ॥ सुरूपमङ्गमस्य स्वङ्गः ॥२॥ स्वतन्त्रो निरवग्रहः । यथाकामी स्वरुचिश्च स्वच्छन्दः स्वैय्र्य्यपावृतः ॥ १९ ॥ स्व आत्मा तन्त्रं प्रधानमस्य स्वतन्त्रः ॥ १ ॥ अवग्रहान्नियन्त्रणात् निष्क्रान्तों निरवग्रहः ॥ २ ॥ यथा कामयते यथाकामी ॥ ३ ॥ वा आत्मीया रुचिरस्य स्वरुचिः ॥ ४ ॥ स्व आत्मीयश्छन्दोऽभिप्रायो ऽस्य स्वच्छन्दः ॥ ५ ॥ स्वयमीरितुं शीलमस्य' स्वैरी स्वैरोऽस्यास्तीति वा " स्वैरस्वैर्यक्षौहिण्याम् ॥ १।२।१५ ॥ इति ऐत्वम् ॥ ६ ॥ अपगतं आवृतं नियन्त्रणमस्य अपावृतः ॥ ७ ॥ १९ ॥ "" यदृच्छा स्वैरिता स्वेच्छा या या इच्छा यदृच्छा, पृषोदरादित्वात् ॥१॥ स्वैरिणो भावः स्वैरिता ॥२॥ स्वस्येच्छा स्वेच्छा ।। ३ । नाथवान् निघ्नगृह्मकौ ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy