SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ- - ___ शक्नोति वक्तुं शक्ल: “शामाश्याशक्यम्ब्यमिभ्यो लः” ॥ (उणा--४६२) ॥ इति लः॥१॥ प्रियं वदति प्रियंवदः "प्रियवशाद् वदः"॥५।१।१०७॥ इति खः ॥२॥ ___ दानशीलः स वदान्यो वदन्योऽपि ___ स प्रियंवदः दानशीलः सन् वदति प्रियं ददानो वदान्यः “वदिसहिभ्यामान्यः” ॥ (उणा--३८१) ॥ इत्यान्यः, दानशीलप्रियवाचौ वदान्यौ पृथगित्येके । यद्भागुरिः-" शक्लो वदान्यः प्रियवाक् वदान्यो दानशीलकः" इति ॥ १ ॥ वदने साधुर्वदन्यः ॥२॥ अथ बालिशः ॥ १५ ॥ मूढो मन्दो यथाजातो बालो मातृमुखो जडः । मूर्योऽमेधोविवर्णाज्ञा वैधेयो मातृशासितः ॥ १६ ॥ देवानांप्रियजाल्मौ च बलति प्राणिति जनन्येति बालिशः “बलेणिद् वा” ॥ (उणा--५३६) ॥ इति इशः ॥ १ ॥ १५ ॥ मुह्यति स्म मूढः ॥ २ ॥ मन्दोऽलस इव मन्दः ॥ ३ ॥ यथैव जातस्तथैव स्थितोऽसंस्कृतत्वाद् यथाजातः, यथोद्गतोऽपि ॥ ४ ॥ बालइव बालः ॥ ५॥ मातैव मुखमस्य मातृमुखः ॥ ६ ॥ जलति न तीक्ष्णो भवति डलयोरैक्ये जडः ॥ ७ ॥ मुह्यति कार्ये मूर्खः “ पूमुहोः पुन्मूरो च” ॥ ( उणा--८६ ) ॥ इति खः ॥ ८ ॥ नास्ति मेधाऽस्य अमेधाः “मन्दाल्पाच मेधायाः " ॥ ७।३ । १३८ ॥ इत्यस् समासान्तः ॥९॥ विगतं वर्णनं श्लाघाऽस्य विवर्णः ॥१०॥ प्रश्नोत्तरे न जानात्यज्ञः ॥ ११॥ विधाया भोजनस्यापत्यमिव वैधेयः, विधेयात् स्वार्थे प्रज्ञाद्यण् वा ॥ १२॥ अज्ञत्वात् मात्रा शास्यते मातृशासितः ॥१३॥१६॥ देवानां प्रियः देवानांप्रियः "देवानांप्रियः” ॥३॥२॥३४॥ इति षष्ट्याअलुप् ॥ १४ ॥ जलतीति जाल्मः “ रुक्मग्रीष्म-" ॥ ( उणा--३४६ ) ॥ इति मान्तो निपात्यते " जाल्मोऽसमीक्ष्यकारी स्यात् ” इत्यमरः ॥१५॥ शेषश्चात्र-मूर्ख त्वनेडो नामवर्जितः ॥ दीर्घसूत्रश्चिरक्रियः। दीर्पण चिरेण सूत्रयति दीर्घसूत्रः, दीर्घण सुवतीति वा ॥ १ ॥ चिरेण कियाऽस्य चिरक्रियः ॥ २ ॥ मन्दः क्रियासु कुण्ठः स्यात् क्रियासु कर्मसु मन्दोऽलसः, कुण्ठति कुण्ठः, कुणति शब्दायते न तु करोतीति वा “ पीविशिकुणिपृषिभ्यः कित् ” ॥ ( उणा--१६३ ) ॥ इति ठः ॥ १ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy