SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः । १४५ मूयते बद्ध्यते वागभावेन मूकः “ विचिपुषि- " ॥ ( उणा - २२ ) ॥ कित् कः ॥ १ ॥ न विद्यते वागस्य अवाक् ॥ २ ॥ शेषश्चात्र - मूके जडकडौ ॥ असौम्यस्वरोऽस्वरः । न सौम्यः स्वरोऽस्य असौम्यस्वरः ॥ १ ॥ विपरीतः स्वरोऽस्य अस्वरः, नञ् विरुद्धे अनर्थवत् ॥ २ ॥ वेदिता विदुरो विन्दुः "" वेत्तीत्येवंशीलो वेदिता ज्ञाता ॥ १ ॥ विदुरः “ वेत्तिच्छिदभिदः कित् ॥ ५।२७५ ॥ इति घुरः ॥ २ ॥ विन्दुः “ विन्द्विच्छू " || ५ | २|३४ ॥ इति साधुः ॥ ३ ॥ वन्दारुस्त्वभिवादकः ॥ १३ ॥ वन्दनशीलो वन्दारुः “ शृवन्देरारुः " || ५|२|३५ ॥ इत्यारुः ॥ १ ॥ अभिवादयते अभिवादकः ॥ २ ॥ १३ ॥ आशंसुराशंसितरि आशंसत इत्येवंशील आशंसुः " सन् भिक्षा " ||५|२|३३|| इति उः ॥ १२ ॥ कट्वरस्त्वतिकुत्सितः । कटत्यारृणोति कट्वरः “कृगृशृद्दृवग्चति ” ॥ (उणा-४४१) ॥ इति वरद्, कुत्सितं वृणोति कवर इत्यन्ये ; अतिशयेन अत्यर्थ कुत्सितोऽतिकुत्सितः ॥ १ ॥ निराकरिष्णुः क्षिप्नुः स्यात् . निराकरणशीलो निराकरिष्णुः “भ्राज्यलङ्कृग्निराकृग्-" ॥५॥२२८॥ इति इष्णुः ॥ १ ॥ क्षिपतीत्येवंशीलः क्षिप्नुः “ सिगृधि - " ॥५॥२॥३२॥ इति क्नुः ॥२॥ विकासी तु विकस्वरः ॥ १४ ॥ विकसनशीलो विकासी विकस्वरः ॥ १ ॥ २ ॥ १४ ॥ दुर्मुखे मुखराबद्धमुखौ मुखशब्देन वाग् लक्ष्यते, दुष्टं मुखं वागस्य दुर्मुखः तत्र ॥ १ ॥ मुखं सर्वस्मिन् वक्तव्येऽस्त्यस्य मुखरः “ मध्वादिभ्यो रः " ॥ २२६ ॥ इति रः ॥ २॥ अब मनियन्त्रितं निरर्थकं वा मुखमस्य अबद्धमुखः ॥ ३ ॥ शक्लः प्रियंवदः ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy