SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १४४ अभिधानचिन्तामणौ- . . जल्पनशीलो जल्पाकः " वृद्भिक्षिलुण्टिजल्पिकुटाटाकः ॥५।२।७०॥ इति टाकः ॥१॥ निन्दिता वागस्यास्ति वाचालः, वाचाटः, “वाच आलाटौं"॥७॥२॥२४॥ इत्याल आटश्च ॥ २ ॥ ३ ॥ बहुनिःसारतया गया वागस्य बहुगावाक् ॥ ४ ॥ यद्वदोऽनुत्तरे यदेव निःसरति तदेव वदति यद्वदः ॥१॥ नास्त्युत्तरमस्य अनुत्तरस्तत्र ॥२॥ दुर्वाक् कद्वदे स्यात् निन्दितं वक्ति दुर्वाक् गर्यवादी ॥ १ ॥ कुत्सितं वदति कद्वदः "रथवदे" ॥३।२।१३१॥ इति कोः कदादेशस्तत्र ॥ २ ॥ अथाधरः ॥ ११ ॥ हीनवादिनि अवति गच्छति हीनत्वमधरः “अवेध् च वा” ॥ (उणा-३९८)॥ इत्यरः॥' १॥ ११॥ हीनं वदतीत्येवंशीलो हीनवादी तत्र ॥२॥ एडमूकोऽनेडमूको त्ववाक्श्रुतौ। एडो बधिरः मूकोऽवाक् एडश्चासौ मूकश्च एडमूकः, “कलमूकस्त्ववाश्रुतिः” इति हलायुधः ॥ १॥ अनेडोऽपि अवर्करोऽपि मूकः अनेडमूकः, “अन्धो ह्यनेड. मक; स्यात्" इति हलायुधः, “अनेडमूकस्तु जडः” इति वैजयन्ती, "शठो ह्यनेडम स्यात्" इति भागुरिः, तदयमनेकार्थो द्रष्टव्यः ॥२॥ न विद्यते वाक् श्रुतिश्चास्य अवाक्श्रुतिस्तत्र ॥ ३ ॥ रवणः शब्दनस्तुल्यौ रौतीत्येवंशीलो रवणः, शब्दयतीत्येवंशीलः शब्दनः शब्दकरः "चलशब्दादकर्मकात्" ॥५।२।४३॥ इत्यनः ॥ १॥ २ ॥ कुवादकुचरौ समौ ॥ १२ ॥ कुत्सितो वादोऽस्य कुवादः ॥१॥ कुत्सितं चरति कुचरः, कुचरः कुटिलाशयइति कश्चित् ॥ २ ॥ १२॥ लोहलोऽस्फुटवाग् लहः सौत्रः, लोहति मुह्यति लोहल: “ मृदिकन्दि-" ॥ (उणा-४६५) ॥ इत्यादिशब्दादलः ॥ १ ॥ अस्फुटा अव्यक्ता वागस्य अस्फुटवाक् ॥ २ ॥ शेषश्चात्र-काहलोऽस्फुटभाषिणि ॥ मूकोऽवाक् .
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy