________________
३ मर्यकाण्डः ।
१४३
प्रत्युत्पन्नमतिः तत्कालं धीरस्य तत्कालधीः ॥१॥ प्रत्यग्रमुत्पन्ना मतिरस्य प्रत्युत्पन्नमतिः ॥२॥
दूराद् यः पश्येद् दीर्घदर्यसौ ॥ ८ ॥ दीर्घ पश्यतीत्येवंशीलो दीर्घदर्शी दूरदर्शी ॥ १ ॥ ८ ॥
हृदयालुः सहृदयश्चिद्रूपोऽपि प्रशस्तं हृदयं मनोऽस्त्यस्य हृदयालुः “कृपाहृदयादालुः ॥७॥२॥४२॥ इत्यालुः ॥ १॥ सह हृदयेन मनसा न तु वक्षसा वर्तते सहृदयः ॥२॥ चिदिति विशिष्टे चैतन्ये वर्तते, चिद् रूपमस्य तन्मयत्वाद् चिद्रूपः ॥ ३ ॥
अथ संस्कृते ।
व्युत्पन्नाहतक्षुण्णाः शास्त्रादिना संस्क्रियते स्म संस्कृतस्तत्र ॥ १॥ व्युत्पद्यते स्म व्युत्पन्नः ॥२॥ प्रहण्यते स्म प्रहतः ॥ ३. ॥ क्षुद्यते स्म क्षुण्णः ॥ ४ ॥
अन्तर्वाणिस्तु शास्त्रवित् ॥ ९॥ - अन्तर्हृदयमध्ये न तु मुखे वाणिर्वागस्य अन्तर्वाणिः, शास्त्रं वेत्ति न च तथा वक्तुं शक्नोति शास्त्रवित् ॥ १ ॥ ९ ॥
__ वागीशो वापतौ
वाचामीशो वागीशः ॥ १॥ वाचां पतिर्वाक्पतिस्तत्र ॥ २ ॥ - वाग्मी वाचोयुक्तिपटुः प्रवाक् ।
समुखो वावदूकः .प्रशस्ता वागस्यास्ति वाग्ग्मी “ ग्मिन् ” ॥ ७॥२।२५ ॥ इति ग्मिन् ॥१॥ वाचो युक्तौ पटुर्वाचोयुक्तिपटुः “पश्यद्वाग्दिशो हरयुक्तिदण्डे " ॥३॥२॥३२॥ इति षष्ठया अलुप् ॥ २ ॥ प्रकृष्टा वागस्य प्रवाक् ॥ ३ ॥ मुखशब्देन वचनमत्र लक्ष्यते ततः सह मुखेन वचनेन वर्तते इति समुखः ॥ ४ ॥ वावद्यते इत्येवंशीलो वावदूकः " यजिजपिदंशिवदादूकः " ॥ ५।२।४७ ॥ इत्यूकः ॥ ५॥
अथ वदो वक्ता वदावदः ॥ १०॥ वदतीति वदः ॥ १॥ वक्तीति वक्ता ॥२॥ वदतीति वदावदः "चराचर-" ॥ ४।१।१३ ॥ इत्यचि कृतद्वित्वो वा निपात्यते ॥ ३॥ १० ॥
स्याजल्पाकस्तु वाचालो वाचाटो बहुगीवाक् ।